SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [१], ------------- दारं [-], -------------- मूलं [३०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३०६] दीप अनुक्रम [५५५] तेऽर्थात् मुखे इति प्रक्षेपः स चासावाहारश्च प्रक्षेपाहारः, तत्र यः खल्वोघतो वर्षादिषु पुद्गलप्रवेशो मूत्रादिगम्यः स लोमाहारः, कावलिकस्तु प्रक्षेपाहारः, तत्र यान् पुद्गलान् लोमाहारतया गृहाति तान् सर्वान्-अपरिशेषानाहारय-8 शान्ति, तेषां तथा २ खभावत्वात् , यान् पुद्गलान् प्रक्षेपाहारतया गृह्णन्ति तेषामसङ्ख्येयतमं भागमाहारयन्ति, अनेकानि पुनर्भागसहस्राणि-बहवोऽसङ्ख्यया भागा इति अस्पृश्यमानानामनाखाद्यमानानां विध्वंसमागच्छन्ति, किमु-1 तं भवति ?-बहूनि द्रव्याण्यन्तर्बहिश्व अस्पृष्टान्येवानाखादितान्येव च विध्वंसमायान्ति, नवरं यथायोग केचिदतिस्थौ-18 ल्यतः केचिदतिसौम्यत इति, सम्प्रत्यस्पृश्यमानानामनाखाद्यमानानां च परस्परमल्पबहुत्वमभिधित्सुराह-'एएसिणं भंते ! पुग्गलाणं अणासाइजमाणाण'मित्यादि, इह एकैकस्मिन् स्पर्शयोग्ये भागेऽनन्ततमो भाग आखाद्यो भवति, ततो येऽनास्वाद्यमानाः पुद्गलास्ते स्तोका एव, अस्पृश्यमानपुद्गलापेक्षया तेषामनन्तभागवर्तित्वात् , अस्पृश्य-1 मानास्तु पुद्गला अनन्तगुणाः, 'जिभिदियफासिदियवेमायचाए' इति विमात्राऽत्रापि प्राग्वद् भावनीया, 'एवं जाव चरिंदिया' एवं-द्वीन्द्रियोक्तप्रकारेण सूत्रं तावद् वक्तव्यं यावचतुरिन्द्रियाः-चतुरिन्द्रियगतं सूत्र, प्रायः समानवक्तव्यत्वात् , यस्तु विशेषः स उपदश्यते-'नवर'मित्यादि, यान् पुद्गलान् प्रक्षेपाहारतया गृह्णन्ति तेषां पुद्गलानामेकमसङ्ख्येयतमं भागमाहारयन्ति अनेकानि पुनर्भागसहस्त्राणि सङ्ख्यातीता असङ्ख्ययभागा इत्यर्थः अनाघ्रायमाणा|नि अस्पृश्यमाणानि अनास्खाद्यमानानि विध्वंसमागच्छन्ति, तानि च यथायोगमतिस्थौल्यतोऽतिसौक्षयतश्च वेदित 2020507002020002020200rnera ~122~
SR No.035020
Book TitleSavruttik Aagam Sootraani 1 Part 20 Pragyapana Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy