________________
आगम
(१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२७], -------------- उद्देशक: [-], ------------- दारं -1, -------------- मूलं [३०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३०२]
दीप
दक उपशान्तमोहः क्षीणमोहो वा, तयोर्मोहनीयोदयासम्भवात् , शेषस्तु सूक्ष्मसंपरायादिरष्टविधवेदकः, एवं मनुष्यपदेऽपि वाच्यं, नैरयिकादयस्तु नियमादष्टविधवेदकाः, बहुवचनचिन्तायां जीवपदे मनुष्यपदे च भङ्गत्रिक, तत्र सर्वेऽपि तावद् भवेयुः अष्टविधवेदका इयेको भङ्गः, ततः सप्तविधवेदकस्यैकस्य भावे द्वितीयो बहूनां भावे तृ-1 तीयः, शेषेषु तु नैरयिकादिषु पदेषु अभङ्गमष्टविधवेदका इति, सप्तविधवेदकत्वस्य तत्रासम्भवात् , एवं दर्शनावरणीयान्तरायसूत्रेऽपि वक्तव्यं, वेदनीयसूत्रे जीवपदे मनुष्यपदे च प्रत्येकमष्टविधवेदको वा सप्लविधवेदको वा चतुविधवेदको वेति वक्तव्यं, शेषेषु तु नैरयिकादिषु अष्टविधवेदक इलेकः, तेषामुपशान्तमोहत्याद्यवस्थासम्भवात्, तत्रैव वेदनीयसूत्रे बहुवचनचिन्तायां जीवपदे मनुष्यपदे च प्रत्येकं भकत्रिकं, तत्राष्टविधवेदकाश्चेत्येको भङ्गा, एष सर्वथा सप्तविधवेदकानामभावे, ततः सप्तविधवेदकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वौ भङ्गाविति, शेषेषु तु नैरयिकादिषु स्थानेष्यभनक अष्टविधवेदका इति, एवमायुर्नामगोत्रसूत्राण्यपि भावनीयानि, मोहनीयं कर्म वेदयमानो नियमादष्टविधवेदक इति, जीवादिषु पञ्चविंशती पदेष्वेकवचनचिन्तायां बहुवचनचिन्तायां च सर्वत्रापि अभङ्गक-अष्टी | कर्मप्रकृतीर्वेदयते वेदयन्ते वा॥ इति श्रीमलयगिरिविरचितायां प्र. वेदवेदाख्यं सप्तविंशतितमं पदं समाप्तम् ॥२७॥
अनुक्रम [५४९]
अत्र पद (२७) "कर्मप्रकृतिवेदवेद" परिसमाप्तम्
~102