SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२६], -------------- उद्देशक: -,------------- दारं -1, -------------- मूलं [३०१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३०१] दीप विधवन्धको वा, सूक्ष्मसम्परायावस्थायामपि मोहनीयवेदनसम्भवात् , एवं मनुष्यपदेऽपि वक्तव्यं, नरकादिषु तु पदेषु सप्तविधवन्धकोऽष्टविधवन्धको वेत्येवं वक्तव्यं, सूक्ष्मसम्परायत्वाभावतः षड्विधबन्धकत्वासम्भवात्, बहुवचनचिन्तायां जीवपदे भात्रिक, तत्र सूक्ष्मसम्परायाः कादाचित्का इतरे च द्वये सदैव बहुत्वेन लभ्यन्ते इति षड्विधबन्धकपदाभावे सप्तविधवन्धका अपि अष्टविधवन्धका अपीत्येको भङ्गः, ततः षविधवन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वावेतो भङ्गाविति, नैरयिकादिषु स्तनितकुमारपर्यवसानेषु सप्तविधबन्धकाः सदा बहुत्वेनावस्थिताः, अष्टविधवन्धकास्तु कादाचित्का एकत्वादिना च भाज्या इति, अष्टविधबन्धकपदाभावे सप्तविघबन्धका इत्येको भङ्गः, ततोऽष्टविधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वाविति, पृथिव्यादिषु तु पञ्चखप्यभङ्गक सप्तविधवन्धका अपि अष्टविधवन्धका अपीति, उभयेषामपि तेषु सदा बहुत्वेन लभ्यमानत्वात् , द्वित्रिचतुरिन्द्रियतिर्यपञ्चेन्द्रियेषु न्यन्तरज्योतिष्कवैमानिकेषु च नैरयिकवत् भङ्गत्रिकं, मनुष्येषु नव भकाः, तत्र सप्तविधबन्धका इत्येको भङ्गस्ततोऽष्टविधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वौ द्वौ षड्विधबंधकपदप्रक्षेपे एकवचनबहुवचनाभ्यां चत्वारः उभयपदप्रक्षेपे इति, तथा चाह-"मोहणिजं वेएमाणे जहा [बंधे] णाणावरणिज तहा भाणियब'मिति ॥ इति |श्रीमलयगिरिविरचितायां षड्विंशतितमं वेदवन्धाख्यं पदं समाप्तम् ।। अनुक्रम [५४८] Nirauasaram.org अत्र पद (२६) "कर्मवेदबन्ध" परिसमाप्तम् ~100~
SR No.035020
Book TitleSavruttik Aagam Sootraani 1 Part 20 Pragyapana Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy