SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं --------------- मूलं [२६७] + गाहा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२६७] गाथा रहरeeseseemeरररर 'विहिसंठाणपमाणे' इत्यादि प्रथम विधयो-भेदाः शरीराणां वक्तव्याः, तदनन्तरं संस्थानानि, ततः प्रमाणानि, तदनन्तरं कतिभ्यो दिग्भ्यः शरीराणां पुद्गलोपचयो भवतीत्येवं पुद्गलचयनं वक्तव्यं, ततः कस्मिन् शरीरे सति किं शरीरमवश्यंभावीत्येवंरूपः परस्परसंयोगो वक्तव्यः, ततो द्रव्याणि च प्रदेशाश्च द्रव्यप्रदेशाः ते च द्रव्याणि च प्रदेशाश्च द्रव्यप्रदेशाः 'समानानामेकशेषः' इत्येकशेषस्तैरल्पबहुत्वं वक्तव्यं, किमुक्तं भवति ?-द्रव्यार्थतया प्रदेशार्थतया || द्रव्यार्थप्रदेशार्थतया च पञ्चानामपि शरीराणामल्पबहुत्वमभिधातव्यमिति, ततः पञ्चानामपि शरीराणामवगाहना-18 विषयमल्पबहुत्वं वाच्यमिति गाथासक्षेपार्थः । तत्र 'यथोद्देशं निर्देश' इति प्रथमतो विधिद्वारमभिधित्सुरादौ शरी-13 रमूलभेदान् प्रतिपादयति,–'कद णं भंते ! इत्यादि, कति-किंपरिमाणानि णमिति वाक्यालङ्कारे भदन्त । शीर्यन्ते-प्रतिक्षणं विशरारुभावं विनतीति शरीराणि, शरीराण्येव शरीरकाणि, तथा स्वार्थे कप्रत्ययः, भगवानाहगौतम ! पश्च शरीराणि प्रज्ञप्तानि मया अन्यैश्च शैपैस्तीर्थकृद्भिः, तान्येव नामत आह-ओरालिए' इत्यादि, उदारं| प्रधान, प्राधान्यं चास्य तीर्थकरगणधरशरीराण्यधिकृत्य, ततोऽन्यस्यानुत्तरशरीरस्याप्यनन्तगुणहीनत्वात् , यद्वा उदारं-1 सातिरेकयोजनसहस्रमानत्वात् शेषशरीरापेक्षया बृहत्प्रमाणं, बृहत्ता चास्य वैक्रियं प्रति भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथा उत्तरवैक्रिय योजनलक्षमानमपि लभ्यते, उदारमेव औदारिकं विनयादिपाठादिकण् , तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भयं वैक्रियं, तथाहि-तदेकं भूत्वा अनेकं भवति अनेकं. भूत्वा एकं दीप अनुक्रम [५०९-५१०] SAREauratonintamational ~421
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy