________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: -,------------- दारं --------------- मूलं [२५५-२५६] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [२५५-२५६]
प्रज्ञापनाया: मलयवृत्ती.
॥३९७॥
गाथा
दायाद् भवति, न च नैरयिकावस्थायां चारित्रपरिणामः, तथा भवखाभाब्यादिति । एवमसुरकुमारादिषु वैमानिक-४२० अन्तपर्यवसानेषु प्रतिषेधो वक्तव्यः । मनुष्येषु तु मध्ये समागतः सन् कश्चिदन्तक्रियां कुर्यात्, यस्य परिपूर्णा चारि-क्रियापदम् त्रादिसामग्री स्यात् , कश्चिन्न कुर्यात् , यस्तद्विकल इति । एवमसुरकुमारादयोऽपि वैमानिकपर्यवसानाः प्रत्येकं नैर[यिकादिचतुर्विंशतिदण्डकक्रमेण वक्तव्याः, तत एवमेते चतुर्विंशतिदण्डकाश्चतुर्यिशतयो भवन्ति ॥ अथेते नैरयिकादयः खखनैरयिकादिभवेभ्योऽनन्तरं मनुष्यभये समागताः सन्तोऽन्तक्रियां कुर्वन्ति किंवा तिर्यगादिभवव्यवधानेन परंपरागता इति निरूपयितुकाम आह–'नेरइया णं भंते ! इत्यादिप्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अनन्तरागता अपि अन्तक्रियां कुर्वन्ति परम्परागता अपि, तत्र रत्नशर्करावालुकापङ्कप्रभाभ्योऽनन्तरागता अपि परम्परागता अपि, धूमप्रभापृथिव्यादिभ्यः पुनः परम्परागता एव, तथाखाभाब्यात् , एनमेव विशेष प्रतिपिपादयिषुः सूत्रसप्तकमाह-एवं रयणप्पभापुढवीनेरइयावि' इत्यादि, सुगम । असुरकुमारादयः स्तनितकुमारपर्यवसानाः पृथिव्यवनस्पतयश्चानन्तरागता अपि अन्तक्रियां कुर्वन्ति परम्परागता अप्यन्तक्रियां कुर्वन्ति, उभयथाऽप्यागतानां तेषामन्तक्रियाकरणाविरोधात् , तथा केवलचक्षुषोपलब्धेः। तेजोवायुद्वित्रिचतुरिन्द्रियाः परम्परागता एव, न त्वनन्तरागताः, तत्र तेजोवायूनामानन्तर्येण मनुष्यत्वस्यैवाप्राप्तेः, द्वीन्द्रियादीनां तु तथाभवस्खाभाब्यादिति । शेषास्तु तिर्यपञ्चेन्द्रियादयो वैमानिकपर्यवसाना अनन्तरागता अपि परम्परागता अपि । अथ नैरयिकादिभवेभ्योऽनन्तर
दीप अनुक्रम [४९६-४९८]
॥३९७॥
~398~