SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२३९ ] दीप अनुक्रम [४८०] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) - पदं [१८], -------------- • उद्देशक: [-], ------------ • दारं [८], • मूलं [२३९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः |हूर्त्ताभ्यधिकानीति तत्सप्तमनरक पृथिव्यपेक्षया द्रष्टव्यं तत्रत्या हि नैरयिकाः कृष्णलेश्याकाः, तेषां च स्थितिरुत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि, यत्तु पूर्वोत्तरभवगते यथाक्रमं चरमाद्ये अन्तर्मुहूर्त्ते ते द्वे अप्येकं, अन्तर्मुहूर्त्तस्यासङ्ख्यात भेदभिन्नत्वात्, तथा चान्यत्राप्युक्तम् - "मुहुत्तद्धं तु जहन्ना तित्तीसं सागरा मुहुत्तहिया । उक्कोसा होइ ठिई नायवा कण्हलेसा ॥ १॥ [ मुहूर्त्तार्थं तु जघन्या त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा । मुहर्त्ताधिका भवति स्थितिः कृष्णलेश्यायाः ॥ १ ॥ ] अत्र 'मुहुत्तहिया' इति चूर्णिकृता व्याख्यातमन्तर्मुहूर्त्ताधिकेति, नीललेश्यासूत्रे यानि दश सागरोपमाणि | पल्योपमासङ्ख्येयभागाभ्यधिकान्युक्तानि तानि पञ्चमपृथिव्यपेक्षया वेदितव्यानि तत्र हि प्रथमप्रस्तटे नीललेश्या 'पंचमियाए मीसा' [पञ्चम्यां मिश्रा ] इति वचनात् तस्मिंश्च प्रथमप्रस्तटे स्थितिरुत्कर्षत एतावती, ये तु पूर्वोत्तरभवगते अन्तर्मुहूर्चे ते पल्योपमासङ्ख्येयभागे एवान्तर्गते इति न पृथग्विवक्षिते, एवमुत्तरत्रापि द्रष्टव्यं कापोतलेश्यासूत्रे त्रीणि सागरोपमाणि पल्योपमासङ्ख्येयभागाभ्यधिकानि तृतीयनरकपृथिव्यपेक्षयाऽवसातव्यानि तृतीयपृथिव्यामपि प्रथमप्रस्तटे कापोतलेश्याया भावात्, 'तईयाए मीसिया' [ तृतीयस्यां मिश्रा ] इति वचनात् तत्र चोत्कृष्टस्थितेरे तावत्याः सम्भवात्, तेजोलेश्या सूत्रे द्वे सागरोपमे पल्योपमासङ्ख्येयभागाभ्यधिके ईशान देवलोक देवापेक्षया वेदितव्ये, ते हि तेजोलेश्याका उत्कर्षत एतावतुस्थितिकाः, पद्मलेश्यासूत्रे दश सागरोपमाणि अन्तर्मुहूर्त्ताभ्यधि| कानि ब्रह्मलोकापेक्षया भावनीयानि, तत्र हि देवानां स्थितिरुत्कृष्टा दश सागरोपमाणि लेश्या च पद्मलेश्या, ये च For Penal Use On ~377~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy