________________
आगम
(१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशकः [४], ------------- दारं [-], -------------- मूलं [२३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
जलेश्या
प्रत सूत्रांक [२३०]
दीप
प्रज्ञापना-IN | 'केवइया णं भंते ! कण्हलेसा ठाणा पन्नत्ता' कियन्ति भदन्त ! कृष्णलेश्यास्थानानि-प्रकर्षापकर्षकृताः स्वरूपभेदाः या: मल- प्रज्ञप्तानि , सूत्रे च पुंस्त्वं प्राकृतत्वात् , इह यदा भावरूपाः कृष्णादयो लेश्याश्चिन्त्यन्ते तदा एकैकस्या लेश्यायाः यवृत्ती.
प्रकर्षापकर्षकृतखरूपभेदरूपाणि स्थानानि कालतोऽसङ्ग्येयोत्सपिण्यवसर्पिणीसमयप्रमाणानि क्षेत्रतोऽसङ्ख्येयलो॥३६९॥
काकाशप्रदेशप्रमाणानि, उक्तं च-"असंखेजाणुस्सप्पिणीण अवसप्पिणीण जे समया । संखाईया लोगा लेस्साणं होति ठाणाई ॥१॥"[असङ्ख्येयानामुत्सर्पिणीनामवसर्पिणीनां च ये समयाः (तत्प्रमाणानि) सङ्ख्यातीता लोका लेश्यानां भवन्ति स्थानानि ॥१॥] नवरमशुभानां संक्लेशरूपाणि शुभानां च विशुद्धरूपाणि, एतेषां च भावलेश्यागतानां | स्थानानां यानि कारणभूतानि कृष्णादिद्रन्यवृन्दानि तान्यपि स्थानान्युच्यन्ते तान्येव चेह ग्राखाणि, कृष्णादिद्रव्याणामेवेहोद्देशके चिन्त्यमानत्वात् , तानि च प्रत्येकमसङ्ख्ययानि, तथाविधैकपरिणामनिवन्धनानामनन्तानामपि द्रव्याणामेकाध्यवसायहेतुत्वेनैकत्वात् , तानि च प्रत्येक द्विविधानि, तद्यथा--जघन्यान्युत्कृष्टानि च, जघन्यलेश्यास्थानपरिणामकारणानि जघन्यानि उत्कृष्टलेश्यास्थानपरिणामकारणान्युत्कृष्टानि, यानि तु मध्यमानि तानि जपन्यप्रत्यासन्नानि जघन्येष्वन्तर्भूतानि उत्कृष्टप्रत्यासन्नानि तूत्कृष्टेषु, एकैकानि च स्वस्थाने परिणामगुणभेदतोऽसङ्ख्येयानि, अत्र दृष्टान्तो-यथा स्फटिकमणेरलक्तकवशेन रक्तता भवति, सा च जघन्यरक्ततागुणालक्तकवशेन जघन्यरक्तता एकगुणा(धिका)लक्तकवशेनैकगुणाधिकजघन्या, एवमेकैकगुणवृल्या जघन्यायामेव रक्ततायामसङ्ख्ययानि स्थानानि
अनुक्रम [४६८]
॥३६॥
~342~