________________
आगम
(१५)
प्रत
सूत्रांक
[२२३]
दीप
अनुक्रम [४६०]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
पदं [१७],
----------- उद्देशक: [३], -------- दारं [-], [-------
- मूलं [२२३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
जाणइ बहुतरागं खेत्तं पासह जाब चितिमिरतरागं पासह, से तेणद्वेणं गोयमा ! एवं बुच्चइ - काउलेस्से णं नेरइए नीललेस्स नेरइयं पणिहाय तं चैव जाव वितिमिरतरागं खेतं पास || (सूत्रं २२३ )
'लेसे णं भंते!' इत्यादि, कृष्णलेश्यो भदन्त कश्विन्नैरयिकोऽपरं कृष्णलेश्याकं प्रणिधाय — अवेक्ष्यावधिनाअवधिज्ञानेन सर्वतः सर्वासु दिक्षु समन्ततः- सर्वासु विदिक्षु समभिलोकमानो - निरीक्षमाणः कियत्-- किंपरिमाणं क्षेत्रं जानाति कियद्वा क्षेत्रमवधिदर्शनेन पश्यति ?, भगवानाह - गौतम ! न बहु क्षेत्रं जानाति नापि बहु क्षेत्रं पश्यति, किमुक्तं भवति ? – अपरं कृष्णलेश्याकं नैरयिकमपेक्ष्य न विवक्षितः कृष्णलेश्याको योग्यतानुसारेणातिविशुद्धोऽपि नैरयिकोऽतिप्रभूतं क्षेत्रमवधिना जानाति पश्यति, एतदेवाह-न दूरम्— अतिविप्रकृष्टं क्षेत्रं जानाति नाप्यतिविप्रकृष्टं क्षेत्रं पश्यति, किं तु इत्वरमेव - स्वल्पमेवाधिकं क्षेत्रं जानाति इत्वरमेवाधिकं क्षेत्रं पश्यति, एतच्च | सूत्रं समानपृथिवीककृष्ण लेश्यनैरयिकविषयमवसे यमन्यथा व्यभिचारसम्भवात् तथाहि - सप्तमपृथिवीगतः कृष्णलेश्याको नैरयिको जघन्यतो गय्यूतार्द्धं जानाति उत्कर्षतो गव्यूतं, पष्ठपृथिवीगतः कृष्णलेश्याको जघन्यतो गव्यूतमुत्कर्षतः सार्द्धं पञ्चमपृथिवीगतः कृष्णलेश्याको जघन्यतः सार्द्धं गव्यूतमुत्कर्षतः किञ्चिदूने द्वे गव्यूते, ततो द्विगुणत्रिगुणाधिक क्षेत्रसंभवाद् भवत्यधिकृतसूत्रस्य व्यभिचारः, यथा समानपृथिवीकमपरं कृष्णलेश्याकं नैरयिकमपेक्ष्यातिविशुद्धोऽपि कृष्ण लेश्याको नैरयिको मनागधिकं पश्यति नातिप्रभूतं तथा दृष्टान्तेनोपपिपादयिषुराह - 'से केणट्ठे
Education Internation
For Parts Only
~ 315~