SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-], ------------- दारं -,------------- मूलं [१७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१७७] दीप अनुक्रम [४०१] प्रशापना- दारिकशरीरमुच्यते तदर्द्धमपि तदेकदेशोऽपि यावदनन्तभागोऽपि शरीरमिति, कोऽत्राभिप्राय इति चेत् ?, उच्यते,|१२ शरीयाः मल- इह यथा लवणपरिणामपरिणतः स्तोको बहुर्वा पुद्गलसङ्घातो लवणमुच्यते तथौदारिकशरीरयोग्यपुद्गलसङ्घातोऽपि रपर्द य०वृत्तौ. औदारिकत्वेन परिणतः स्तोको वा बहुर्वा औदारिकशरीरव्यपदेशं लभते, अथवा भवति समुदायैकदेशेऽपि समुदा॥२७॥ यशब्दोपचारो, यथा-अनुल्यने स्पृष्टे स्पृष्टो मया देवदत्त इत्यादौ, तत उपचारान्न कश्चिद्दोषः, ननु यद्येवं कथं तान्यनन्तलोकाकाशप्रदेशप्रमाणान्यौदारिकशरीराण्येकस्मिन् लोकेऽवगाढानि ?, उच्यते, प्रदीपप्रकाशवत् , तथाहियथैकस्यापि प्रदीपस्वाचीपि सकलभवनावभासीनि भवन्ति, अन्येषामनेकेषां प्रदीपानामचींषि तत्रैवानुप्रविशन्ति, परस्परमविरोधात् , तथौदारिकाण्यपि, एवं शेषशरीरेष्वपि मुक्तेष्वायोज्यं, ननु द्रव्यक्षेत्रे विहाय किमिति प्रथमतः कालेन प्ररूपणा कृता, उच्यते, कालान्तरावस्थायितया पुद्गलेषु शरीरोपचारो नान्यथा ततः कालो गरीयान् इति। प्रथमतस्तेन प्ररूपणा । उक्तान्यौदारिकाणि, सम्प्रति वैक्रियसूत्रमाह-केवइया णं भंते !' इत्यादि, बद्धान्यसायेSयानि, तत्र कालतः परिमाणं प्रतिसमयमेकैकशरीरापहारे सामस्स्येनासङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, किमुक्तं भवति ?-असङ्ख्येयासूत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावत्प्रमाणानीति, क्षेत्रतोऽसबेयाः श्रेणयस्तासां ॥२७या श्रेणीनां परिमाणं प्रतरस्थासङ्ख्येयो भागः, किमुक्तं भवति ?-प्रतरस्यासङ्खयेयतमे भागे यावत्यः श्रेणयस्तासु च श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानि बद्धानि वैक्रियशरीराणीति, अथ श्रेणिरिति किमभिधीयते ?, उच्यते, घनीक ~148~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy