________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [२], --------------- उद्देशकः -1, ------------- दारं [-1, -------------- मूलं [४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[४०]
एवं बादरवायुकायिकवनस्पतिकायिकसूत्राण्यपि प्रत्येकं त्रीणि त्रीणि भावनीयानि, नवर बादरपर्याप्तवायुकायिकसूत्रे भवनच्छिद्राणि-भवनानामवकाशान्तराणि भवननिष्कुटा-गवाक्षादिकल्पाः केचन भवनप्रदेशाः नरकच्छिद्राणि नरकनिष्कुटा-गवाक्षादिकल्पा नरकावासप्रदेशाः, एवं विमानच्छिद्राणि विमाननिष्कुटाश्च प्रतिपत्तव्याः, 'उववाएणं लोगस्स असंखेजेसु भागेसु' इत्यादि, वायवो हि पर्याप्ता अतिवहवः, यतो यत्र सुषिरं तत्र वायुः, सुषिरबहुलश्च लोक इति त्रिवप्युपपातादिषु लोकस्यासंख्येयेषु भागेष्वित्युक्तं । अपर्याप्तबादरवायुकायिकसूत्रे 'उबवाएणं समुग्धारण य सबलोए' इति, इह देवनारकवर्जेभ्यः शेषकायेभ्यः सर्वेभ्यो बादरापर्याप्तवायुकायेषु समुत्पधन्ते, बादरापर्याप्ताश्चापान्तरालगतावपि लभ्यन्ते, बहूनि च खस्थानानि बादरपर्याप्तापर्याप्तवायुकायिकानां, ततो व्यवहारनयमतेनाप्युपपातमधिकृत्य सकललोकव्यापिता घटते इति न काचित् क्षतिः, समुद्घातेन च सकल| लोकव्यापिता सुप्रतीतैव, सर्वेषु सूक्ष्मेषु सर्वत्र च लोके तेषां समुत्पादसंभवात् । बादरपर्याप्तवनस्पतिकायिकसूत्रे 'उववाएणं सबलोए' इह पर्यासवादरवनस्पतिकायिकानां खस्थानं घनोदध्यादि, तत्र वादरनिगोदानां शैवालादीनां संभवात् , सूक्ष्मनिगोदानां भवस्थितिरन्तर्मुहूर्तं ततस्ते बादरनिगोदेषु पर्याप्तेषु समुत्पद्यमाना पादरनिगोदपर्याप्तायुरनुभवन्तः सुविशुद्धऋजुसूत्रनयदर्शनाभ्युपगमेन लब्धवादरपर्यासवनस्पतिकायिकव्यपदेशा उपपातेन सकलकालं सर्वलोकं व्यामुवन्ति, तत उक्तम्-'उपपातेन सर्वलोके' इति । 'समुग्घाएणं सबलोए' इति, यदा बादरनिगोदाः
Ledese
दीप अनुक्रम [१९३]
SUREairan
~167~