________________
आगम
(१५)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
- दारं [-],
मूलं [-]
पदं [-], ---------------- उद्देशक: [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१५] उपांगसूत्र- [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्र. १
॥ अर्हम् ॥ श्रीमदार्यश्यामाचार्य संकलितम् श्रीमन्मलयगिर्याचार्यविरचितवृत्तिपरिकरित
श्रीप्रज्ञापनासूत्रम्
जयति नमदमरमुकुट प्रतिविम्बच्छद्मविहितबहुरूपः । उद्धर्त्तुमिव समस्तं विश्वं भवपङ्कतो वीरः ॥ १ ॥ जिनवचनामृतजलधिं वन्दे यद्विन्दुमात्रमादाय । अभवन्नूनं सत्त्वा जन्मजराव्याधिपरिहीणाः ॥ २ ॥ प्रणमत गुरुपदपङ्कजमधरीकृतकामधेनुकल्पलतम् । यदुपास्तिवशान्निरुपममश्नुवते ब्रह्म तनुभाजः ॥ ३ ॥ 'जडमतिरपि गुरुचरणोपास्तिसमुद्भूतविपुलमतिविभवः । समयानुसारतोऽहं विदधे प्रज्ञापनाविवृतिम् ॥ ४ ॥ अथ प्रज्ञापनेति कः शब्दार्थः १, उच्यते, प्रकर्षेण निःशेषकुतीर्थितीर्थंकरासाध्येन यथावस्थितस्वरूपनिरूपणलक्षणेन ज्ञाप्यन्ते-शिष्यबुद्धावारोप्यन्ते जीवाजीवादयः पदार्था अनयेति प्रज्ञापना, इयं च समवायाख्यय चतुर्था
वृत्तिकारकृत् मङ्गल-गाथा:, प्रज्ञापना-शब्दस्य व्याख्या
For Parts Only
~13~
rary or