________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
--------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
*
औपपा-
तिकम्
॥११॥
प्रत
सूत्रांक
********
[४३]
स्थिरतासाम्याद्याऽवस्था सा शैलेशी अथवा शीलेश:-सर्वसंवररूपचारित्रप्रभुस्तस्येयमवस्था योगनिरोधरूपेति शैलेशी तांसिद्धाधिक प्रतिपद्यते, ततः 'पुबरश्यगुणसेढीयं च ण'ति पूर्व-शैलेश्यवस्थायाः प्राग् रचिता गुणश्रेणी-क्षपणोपक्रमविशेषरूपा यस्य तत्तथा, गुणश्रेणी चैवं-सामान्यतः किल कर्म बह्वल्पमल्पतरमल्पतमं चेत्येवं निर्जरणाय रचयति, यदा तु परिणामवि
सू०४३ शेषात्तत्र तथैव रचिते कालान्तरवेद्यमल्पं बहु बहुतरं बहुतमं चेत्येवं शीघतरक्षपणाय रचयति तदा सा गुणश्रेणीत्युच्यते, स्थापना चैवं/'कम्मति वेदनीयादिकं भवोपमाहि तीसे सेलेसिमद्धाए'त्ति तस्यां शैलेशीअद्धायां-शैलेशीकाले क्षपयन्निति योगः , एतदेव विशेषेणाह-'असंखेजाहिं गुणसेढीहिन्ति असङ्ख्याताभिर्गुणश्रेणीभिः शैलेश्यवस्थाया असङ्ग्यातसमयत्वेन गुणश्रेण्यप्यसङ्ख्यातसमया ततः तस्याः प्रतिसमयभेदकल्पनया असङ्ख्यातागुणश्रेणयो भवन्ति, अतोड़सङ्ख्याताभिः गुणश्रेणीभिरित्युक्तम् , असङ्ख्यातसमयैरिति हृदयम्, 'अणते कम्मंसे खवयंतो'त्ति अनन्तपुद्गलरूपत्वादनन्तास्तान् कर्माशान्-भवोपग्राहिकर्मभेदान क्षपयन्-निर्जरयन् 'वेयणिज्जाउयणामगोए'त्ति वेदनीयं सातादि आयुः-मनुष्यायुष्क नाम-मनुष्यगत्यादि गोत्रम्-उचैर्गोत्रम् 'इचेते'त्ति इत्येतान् 'चत्तारित्ति चतुरः 'कम्मसे'त्ति कर्माशान्मूलप्रकृतीः 'जुगर्व खवेइत्ति योगपद्येन निर्जरयतीति । एतच्चैता भाष्यगाथा अनुश्रित्य व्याख्यातं,यदुत-"तदसंखेजगुणाए सेढीए विरइयं पुरा कम्म।
१ तदसोयगुणया श्रेण्या विरचितं पुरा कर्म । समये समये क्षपयन् कर्म शैलेशीकालेन ॥ १॥ सर्व क्षपयति तत्पुनर्निर्लेप किञ्चिदुपरितने समये । किञ्चिच भवति चरमे शैलेश्यां तवक्ष्ये ॥२॥ मनुजगतिजातित्रसबादरं च पर्याप्त सुभगमादेयम् । अन्यतरवेदनीयं नरायुरुच्चैः यशोनाग ॥ ३ ॥ सम्भवतो जिननाम नरानुपूर्वीच चरमसमये । शेषा जिनसत्का द्वि चरमसमये निस्तिष्ठन्ति (निष्ठां यान्ति) 2018
दीप अनुक्रम
SACREAST
C११३
(५५)
***
| सिद्ध एवं सिद्ध-पद प्राप्ति-विषयक: अधिकार:
~365~