SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [८०२ -८०४] + गाथा: दीप अनुक्रम [९६३ -९६९] [भाग-११]“भगवती”– अंगसूत्र - ५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-], अंतर् शतक [ - ], उद्देशक [७], मूलं [ ८०२-८०४] + गाथा: पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [०५] अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि- रचिता वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९२४ ॥ * 'ठाणाइए' ति स्थानं कायोत्सर्गादिकमतिशयेन ददाति गच्छतीति वा स्थानातिदः स्थानातिगो वा, 'अहा उववाहए'त्ति, अनेनेदं सूचितं- 'पडिमडाई वीरासणिए नेसज्जिए' इत्यादि, इह च प्रतिमाः- मासिक्यादयः, वीरासनं च सिंहासननिविष्टस्य भून्यस्तपादस्य सिंहासनेऽपनीते यादृशमवस्थानं, निषया च-पुताभ्यां भूमावुपवेशनं, 'सोइंदियविसयप्पयारनिरोहो | वत्ति श्रोत्रेन्द्रियस्य यो विषयेषु - इष्टानिष्टशब्देषु प्रचारः - श्रवणलक्षणा प्रवृत्तिस्तस्य यो निरोधो-निषेधः स तथा शब्दानां श्रवणवर्जनमित्यर्थः 'सोदियविसए' इत्यादि श्रोत्रेन्द्रियविषयेषु प्राप्तेषु च 'अर्थेषु' इष्टानिष्टशब्देषु रागद्वेषविनि| ग्रहो- रागद्वेषनिरोधः 'मणस्स वा एगत्तीभावकरणं' मनसो वा 'एगत्त'त्ति विशिष्टकाप्रत्वेनैकता तद्रूपस्य भावस्य करणमेकत्ताभावकरणं, आत्मना वा सह यैकता-निरालम्बनत्वं तद्रूपो भावस्तस्य करणं यत्तत्तथा 'वईए वा एमत्तीभावकरणं'ति वाचो वा विशिष्टकाग्रस्वेनै कतारूपभावकरणमिति 'सुसमाहियपसंत साहरियपाणिपाए त्ति सुष्ठु समाहितःसमाधिप्राप्तो बहिर्वृत्या स चासौ प्रशान्तश्चान्तर्वृत्त्या यः स तथा संहृतं अविक्षिप्ततया धृतं पाणिपादं येन स तथा ततः कर्म्मधारयः 'कुम्मो इव गुत्तिदिए'त्ति गुप्तेन्द्रियो गुप्त इत्यर्थः क इव ?- कूर्म्म इव, कस्यामवस्थायामित्यत एवाह 'अल्लीणे पल्लीणेत्ति आलीन:-ईपल्लीन: पूर्व प्रलीनः पश्चात् प्रकर्षेण लीनस्ततः कर्म्मधारयः, 'सोमिलुदेसए'त्ति अष्टादशशतस्य दशमोदेशके, एतेन च यत्सूचितं तत्तत एवावधार्यम् ॥ 'पायच्छिते 'ति इह प्रायश्चित्तशब्देनापराधशुद्धिरुच्यते, | 'वेयावचं 'ति वैयावृत्त्यं - भक्तपानादिभिरुपष्टम्भः 'नाणविणए'त्ति ज्ञानविनयो-मत्यादिज्ञानानां श्रद्धानभक्ति बहुमान| तद्दृष्टार्थभावना विधिग्रहणाभ्यासरूपः 'दंसणविणए'त्ति दर्शनविनयः सम्यग्दर्शनगुणाधिकेषु शुश्रूषादिरूपः 'चरित - Education Internationa For Parts Only •••अत्र मूल संपादने सूत्र क्रमांकन सुचने एका स्खलना दृश्यते, सू. ८०२-८०४ स्थाने ८०३-८०४ मुद्रितं तपः, तस्य अर्थ, तस्य भेद-प्रभेदाः, ~264~ २५ शतके उद्देशः ७ ध्यानानि व्युत्सर्गः सू ८०३-८०४ | ॥ ९२४ ॥
SR No.035011
Book TitleSavruttik Aagam Sootraani 1 Part 11 Bhagavati Mool evam Vrutti Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size83 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy