________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६७-४६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४६७-४६८]
SSSXXXXXXX
सिद्धराशिनाऽधिका भवन्तीति, भवन्ति चात्र गाथा:-"कोडीसहस्सपुहुर्त जईण तो थोवियाओं चरणाया । णाणाहै याऽणतगुणा पडुच सिद्धे य सिद्धाओ ॥शा होति कसायायाओऽणतगुणा जेण ते सरागाणं । जोगाया भणियाओ अयोगिवज्जाण तो अहिया ॥२॥जं सेलेसिगयाणवि लद्धी विरियं तओ समहियाओ । उवओगदवियदंसण सबजिया णं ततो अहिया ॥३॥" इति ॥ अथात्मन एव स्वरूपनिरूपणायाह-'आया भंते ! नाणे इत्यादि, आत्मा ज्ञानं योऽयमात्माऽसौ ज्ञानं न तयो दः अथात्मनोऽन्यज्ज्ञानमिति प्रश्नः, उत्तरं तु-आत्मा स्याज्ज्ञानं सम्यक्त्वे सति मत्यादिज्ञानस्वभावत्वात्तस्य, स्यादज्ञानं मिथ्यात्वे सति तस्य मत्य ज्ञानादिस्वभावत्वात् , ज्ञानं पुनर्नियमादात्मा आत्मधर्मत्वाज्ज्ञानस्य, न च सर्वथा धर्मो धर्मिणो भिद्यते, सर्वथा भेदे हि विप्रकृष्टगुणिनो गुणमात्रोपलब्धौ प्रतिनियतगुणिविषय एव संशयो | न स्यात् , तदन्येभ्योऽपि तस्य भेदाविशेषात् , दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसररन्ध्रोदरान्तरतः किमपि। शुक्लं पश्यति तदा किमियं पताका किमियं बलाका ? इत्येवं प्रतिनियतगुणिविषयोऽसौ, नापि धर्मिणो धर्मः सर्वथैवाभिन्नः, सर्वथैवाभेदे हि संशयानुत्पत्तिरेव, गुणग्रहणत एवं गुणिनोऽपि गृहीतत्वादतः कथञ्चिदभेदपक्षमाश्रित्य ज्ञान ले पुनर्नियमादात्मेत्युच्यत इति, इह चात्मा ज्ञानं व्यभिचरति ज्ञानं त्वात्मानं न व्यभिचरति खदिरवनस्पतिवदिति सूत्र
१ यतीनां कोटीसहसप्पथक्वं ततः स्तोकाश्चरणात्मानः ज्ञानात्मानोऽनन्तगुण!: सिद्धाः सिद्धान् प्रतीय ॥ १॥ कषायास्मानोऽनहन्तगुणा भवन्ति यतस्ते सरागाणां ततो योगात्मानोऽधिका अयोगिवा यतो भणिताः॥ २॥ यच्छैलेशीगतानामपि लब्धिवीर्य ततस्ते सनहै घिकाः । उपयोगद्रव्यदर्शनात्मानः सर्वे जीवास्ततोऽधिकाः ॥३॥
दीप अनुक्रम [५६०-५६१]
'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा:
~93~