________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१०], मूलं [४६७-४६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४६७-४६८]
।
दीप अनुक्रम [५६०-५६१]
वाचनान्तरे पुनरिदमेवं दृश्यते-'जस्स चरित्ताया तस्स जोगाया नियम'त्ति तत्र च चारित्रस्य प्रत्युपेक्षणादिव्यापाररूपस्य विवक्षितत्वात्तस्य च योगाविनाभावित्वात् यस्य चारित्रात्मा तस्य योगात्मा नियमादित्युच्यत इति, तथा यस्य योगात्मा तस्य वीर्यात्माऽस्त्येव योगसद्भावे वीर्यस्यावश्यम्भावात् , यस्य तु वीर्यात्मा तस्य योगात्मा भजनया यतो वीर्यविशेषवान् सयोग्यपि स्याद् यथा सयोगकेवल्यादिः अयोग्यपि स्याद् यथाऽयोगिकेवलीति ५ ॥ अथोपयोगात्मना सहान्यानि चत्वारि चिन्त्यन्ते तत्रातिदेशमाह-'जह दवियाय'त्यादि, एवं च भावना कार्यान्यस्योपयोगात्मा | तस्य ज्ञानारमा स्यादस्ति यथा सम्यग्दृशां स्थानास्ति यधा मिथ्यादृशां, यस्य च ज्ञानारमा तस्यावश्यमुपयोगारमा सिद्धानामिवेति १, तथा यस्योपयोगात्मा तस्य दर्शनात्माऽस्त्येव यस्यापि दर्शनात्मा तस्योपयोगात्माऽस्त्वेव यथा सिद्धा| दीनामिवेति २, तथा यस्योपयोगात्मा तस्य चारित्रात्मा स्यादस्ति स्थान्नास्ति यथा संयतानामसंयतानां च, यस्य तु चारित्रात्मा तस्योपयोगारमाऽस्त्येवेति यथा संयतानां ३, तथा यस्योपयोगात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव स्यान्नास्ति सिद्धानामिव यस्य पुनवीर्यारमा तस्योपयोगात्माऽस्त्येव संसारिणामियेति ४ । अथ ज्ञानात्मना सहान्यानि त्रीणि चिन्त्यन्ते-'जस्स नाणे'त्यादि, तत्र यस्य ज्ञानात्मा तस्य दर्शनात्माऽस्त्येव सम्यग्दृशामिव, यस्य च दर्शनात्मा तस्य ज्ञानात्मा स्यादस्ति यथा सम्यग्दृशां स्थान्नास्ति यथा मिथ्याशामत एवोक्तं 'भयणाए'त्ति १, तथा 'जस्स| नाणाया तस्स चरित्ताया सिय अत्धिति संयतानामिव 'सिय नत्यि'त्ति असंयतानामिव 'जस्स पुण चरित्ताया
RELIGunintentiational
'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा:
~91