SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [६१६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६१६] गाथा: यो नारको नारकत्वादुदत्तः सन् पुनर्नरकगतिं न यास्यति सिद्धगमनात् स चरमः अन्यस्वचरमा, एवं यावद्वैमानिकः ।। 'सिद्धे जहा जीवे'त्ति अचरम इत्यर्थः, न हि सिद्धः सिद्धतया विनङ्ग यतीति । 'जीवा ण'मित्यादि, पृथक्त्वदण्डकस्तथाविध एवेति ॥ आहारकद्वारे-'आहारए सवत्य'त्ति सर्वेषु जीवादिपदेषु 'सिय चरिमे सिय अचरिमे'त्ति कश्चिच्चरमो यो निर्वास्थति अन्यस्वचरम इति । अनाहारकपदेऽनाहारकत्वेन जीवः सिद्धश्चाचरमो वाच्या, अनाहारकत्वस्य तदीयस्यापर्यवसितत्वात् , जीवश्चेह सिद्धावस्थ एवेति, एतदेवाह-'अणाहारओ'इत्यादि, 'सेसठाणेसु'त्ति नारकादिषु पदेषु 'जहा आहारओ'त्ति स्याचरमः स्यादचरम इत्यर्थः, यो नारकादित्वेनानाहारकत्वं पुनर्न लप्स्यते स चरमो यस्तु तल्लप्स्यतेऽसौ अचरम इति ॥ भव्यद्वारे-भवसिद्धीओ'इत्यादि, भव्यो जीवो भव्यत्वेन चरमः, सिद्धिगमनेन भव्यत्वस्य चरमत्वप्राप्तः, एतच सर्वेऽपि भवसिद्धिका जीवाः सेत्स्यन्तीति वचनप्रामाण्यादभिहितमिति 'अभवसिद्धिओ सबत्य'त्ति सर्वेषु जीवादिपदेषु 'नो चरिमेत्ति अभव्यस्य भव्यत्वेनाभावात् , 'नोभवेत्यादि उभयनिषेधवान् जीवपदे सिद्धपदे | चाभवसिद्धिकवदचरमः तस्य सिद्धत्वात् सिद्धस्य च सिद्धत्वपर्यायानपगमादिति ॥ सज्ञिद्वारे-'सन्नी जहा आहारओ'त्ति सज्ञित्वेन स्याचरमः स्वादचरम इत्यर्थः, एवमसङ्ग्यपि, उभयनिषेधवांश्च जीवः सिद्धनाचरमो, मनुष्यस्तु चरमः | उभयनिषेधवतो मनुष्यस्य केवलित्वेन पुनर्मनुष्यत्वस्यालाभादिति ॥ लेश्याद्वारे-'सलेसा'इत्यादि, 'जहा आहा-| है रओ'त्ति स्याचरमः स्यादचरम इत्यर्थः, तत्र ये निर्वास्यन्ति ते सलेश्यत्वस्य चरमाः, अन्ये खचरमा इति ॥ दृष्टिद्वारे 'सम्मद्दिट्टी जहा अणाहारओत्ति जीवः सिद्धश्च सम्यग्दृष्टिरचरमो यतो जीवस्य सम्यक्त्वं प्रतिपतितमप्यवश्यंभावि, दीप अनुक्रम [७२१-७२६] ~380
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy