SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-1, अंतर-शतक [-1, उद्देशक [१], मूलं [६१६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६१६] गाथा: अप्रथम इत्यर्थः असंयतत्वस्थानादित्वात् , 'संजयासंजए'इत्यादि संयतासंयतो जीवपदे पश्चेन्द्रियतिर्यपदे मनुष्यपदेच भषवीत्यत एतेष्वेकत्वादिना सम्यग्दृष्टिववाच्यः स्यात्प्रथमः स्यादप्रथम इत्यर्थः, प्रथमाप्रथमत्वं च प्रथमेतरदेशविरतिलाभापेक्षयेति 'मोसंजएनोअस्संजए इत्यादि, निषिद्धसंयमासंयममिश्रभावो जीवः सिद्धश्च स्थात् स च प्रथम एवेति ॥ कषायद्वारे-'सकसाई'त्यादि, कषायिणः आहारकवदप्रथमा अनादित्वात्कपायित्वस्येति 'अकसाईत्यादि, अकपायो जीवः स्यात्प्रथमो यथाख्यातचारित्रस्य प्रथमलामे स्यादप्रथमो द्वितीयादिलाभे, एवं मनुष्योऽपि, सिद्धस्तु प्रथम एव, सिद्धत्वानुगतस्याकपायभावस्य प्रथमत्वादिति ॥ ज्ञानद्वारे-'णाणी त्यादि, 'जहा सम्मदिट्टी'त्ति स्यात्प्रथमः स्यादप्रथम इत्यर्थः तत्र केवली प्रथमः अकेवली तु प्रथमज्ञानलामे प्रथमः अन्यथा त्वप्रथम इति, 'नवरं जं जस्स अत्धित्ति जीवादिदण्डकचिन्तायां यत् मतिज्ञानादि यस्य जीधनारकादेरस्ति तत्तस्य वाच्यमिति, तच्च प्रतीतमेव, 'केवलनाणी'त्यादि व्यक्तम्, 'अन्नाणी'त्यादि, 'जहा आहारए'त्ति अप्रथम इत्यर्थः, अनादित्वेनानन्तशोऽज्ञानस्य सभेदस्य लाभादिति ॥ योगद्वारे-'सजोगी'त्यादि, एतदप्याहारकवदप्रथममित्यर्थः 'जस्स जो जोगो अस्थिति जीवनारकादिदण्डकचिन्तायां यस्य जीवादेयों मनोयोगादिरस्ति स तस्य वाच्यः, स च प्रतीत एवेति, 'अजोगी'त्यादि, जीवो मनुष्यः सिद्धश्चायोगी भवति स च प्रथम एवेति ॥ उपयोगद्वारे-'सागारे त्यादि 'जहा अणाहारए'त्ति साकारोपयुका अनाकारो-|| पयुक्ताश्च यथाऽनाहारकोऽभिहितस्तथा वाच्याः, ते च जीवपदे स्यात्प्रथमाः सिद्धापेक्षया स्यादप्रथमाः संसार्यपेक्षया, नार-18 कादिवैमानिकान्तपदेषुतु नो पक्षमा अप्रथमा अनादित्वात्तल्लाभस्य, सिद्धपदे तु प्रथमा नो अमथमाः साकारानाकारोपयोग ASHTASS+ MOHARDAN दीप अनुक्रम [७२१-७२६] कर SAREauratonintamanna ~378
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy