________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [२४७]
रानुप्रेक्षेति । अथ शुकमाह-पुहुत्तवितकेत्ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन पृथुत्वेन या विस्तीर्णभावेनेत्यन्ये वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु वितर्कः श्रुतालम्बनतया श्रुतमित्युपचारादधीत इति, तथा विचरणम्-अर्थाद् व्यञ्जने व्यञ्जनादर्थे तथा मनःप्रभृतीना योगानामन्यतरस्मादन्यतरस्मिन्निति विचारो 'विचारोऽर्थव्यञ्जनयोगसङ्क्रान्ति'रिति (तत्त्वा० अ०९ सू०४६) वचनात्, सह विचारेण सविचारि, सर्वधनादित्वादिन्समासान्तः, उक्तं च-"उप्पायठितिभंगाई पजयाणं जमेगदग्बंमि । नाणानयाणुसरणं पुन्वगयसुयाणुसारेणं ॥१॥ सवियारमस्थर्वजणजोगंतरओ तयं पढमसुकं । होति पुहुत्तवियर्क सवियारमरागभावस्स ॥२॥" इत्येको भेदः, तथा 'एगत्तवियकत्ति एकत्वेन-अभेदेनोसादादिपर्यायाणामन्यतमैकपर्यायालन्बनतयेत्यर्थो वितर्क:-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितकम्, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनप्रभृतीनामन्यतरस्मादन्यत्र सञ्चरणलक्षणो निर्वातगृहगतप्रदीपस्येव यस्य तदबिचारीति पूर्ववदिति, उक्तं च- पुण सुनिष्पक निवायसरणप्पईवमिव चित्तं । उपायठिइभंगाइयाणमेगमि पज्जाए ॥१॥ अवियारमत्थर्वजणजोगंतरओ तय बिइयसुकं । पुधगयसुयालंबणमेगत्तवियकमवियारं ॥२॥” इति द्वितीयः, तथा
१ उत्पादस्थितिभंगादिपर्यवानां यदेकस्मिन् अम्बे नानानपैरनुसरणं पूर्वगतश्रुतानुसारेण ॥ १॥ सविचारमननयोगान्तरतस्तत् प्रथमचक्रम् भवति | पृथक्त्ववितर्क सपिचारमरागभावस ॥२॥२ यत्पुनः मुनिष्प्रकप निवातस्थानप्रदीपभिव पित्त उत्पादस्थितिभंगादीनामेकस्मिन् पर्याये ॥1॥ अविचारमर्थबननयोगान्तरतखत द्वितीय शलम् । पूर्वगतधुतालम्बनमेकत्वनितमविचारम् ॥ २॥
SARESCAX
दीप
अनुक्रम [२६१]
AnEautatunIOमाधान
wwwjanwaitary
चत्वार: ध्यानस्य वर्णनं
~391~