SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: * प्रत सूत्रांक [२३५] दीप अनुक्रम [२४९] द्रव्यतो गेहाद्भावतः संसाराभिनन्दिदेहिनामावासभूतादविवेकगेहान्निष्क्रम्येति गम्यते अनगारिता-अगारी-गृही असं-18 यतः तत्प्रतिषेधादनगारी-संयतस्तभावस्तत्ता तां साधुतामित्यर्थः, प्रत्रजितः-प्रगतः प्राप्त इत्यर्थः, अथवा विभक्तिपरि-| णामादनगारितया-निर्ग्रन्थतया 'प्रवजितः' प्रत्रज्यां प्रतिपन्नः, किंभूत इत्याह-संजमबहुले'त्ति संयमेन पृथिव्यादिसंरक्षणलक्षणेन बहुल:-प्रचुरो यः स तथा, संयमो वा बहुलो यस्य स तथा, एवं संवरबहुलोऽपि, नवरमाश्रवनि-18 रोधः संवरः, अथवा इन्द्रियकपायनिग्रहादिभेदः, एवं च संयमबहुलग्रहणं प्राणातिपातविरतेः प्राधान्यख्यापनार्थ, यतः-"एक चिय एत्थ वयं निदिई जिणवरेहिं सब्वेहिं । पाणाइवायविरमणमवसेसा तस्स रक्खडा ॥१॥" इति, पतञ्च द्वितयमपि रागाद्युपशमयुक्तचित्तवृत्तेर्भवति, अत आह-समाधिबहुलः, समाधिस्तु-प्रशमवाहिता ज्ञानादिर्वा, समाधिः पुननिःस्नेहस्यैव भवतीत्याह-'लूहे'रुक्षः-शरीरे मनसि च द्रव्यभावस्नेहवर्जितत्वेन परुषः, लूषयति वा कर्मम-1 लमपनयतीति लूपः, कथमसावेवं संवृत्त इत्याह-यतः "तीरट्ठी" तीरं-पारं भवार्णवस्यार्थयत इत्येवंशीलस्तीराथीं तीर| स्थायी वा तीरस्थितिरिति वा प्राकृतत्वात् तीरद्वेत्ति, अत एव 'उवहाण'ति उपधीयते-उपष्टभ्यते श्रुतमनेनेति उपधानं श्रुतविषयस्तपउपचार इत्यर्थः तद्वान् , अत एव-दुक्खक्ख'त्ति दुःखम्-असुखं तत्कारणत्वाद्वा कम्में तत् क्षपयतीति दुःखक्षपः, कर्मक्षपणं च तपोहेतुकमित्यत आह-'तवस्सी'ति तपोऽभ्यन्तरं कर्मेन्धनदहनज्वलनकल्पमनवरतशुभध्यानलक्षणमस्ति यस्य स तपस्वी, 'तस्स गति यश्चैवविधस्तस्य ण वाक्यालङ्कारे नो तथाप्रकारम्-अत्यन्तघोरं १ अत्र-एकमेवान मत सबैजिनवरैनिर्दिष्टं । प्राणातिपातविरमणमवशेषाणि तस रक्षार्थ ॥१॥ * * अंतक्रियाया: वर्णनं ~371~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy