________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३-६]
दीप अनुक्रम [३-६]
'एगे दंडे एकोऽविवक्षितविशेषत्वात् दण्क्यते-ज्ञानाद्यैश्वर्यापहारतोऽसारीक्रियते आत्माऽनेनेति दण्डः, स च । द्रव्यतो भावतश्च, द्रव्यतो यष्टिर्भावतो दुष्पयुक्तं मनःप्रभृति ॥ तेन चारमा क्रियां करोतीति तामाह-एगा किरिया' एका-अविवक्षितविशेषतया करणमात्रविवक्षणात् करणं क्रिया-कापिक्यादिकेति, अधवा 'एगे दंडे एगा किरिय'त्ति सूत्रद्वयेनारमनोऽक्रियत्वनिरासेन सक्रियत्वमाह, यतो दण्डकियाशब्दाभ्यां प्रयोदश क्रियास्थानानि | प्रतिपादितानि, तत्रार्थदण्डानर्थदण्डहिंसादण्डाकस्माद्दण्डदृष्टिविपर्यासदण्डरूपः पञ्चविधो दण्डः परमाणापहरणलक्षणो दण्डशब्देन गृहीतः, तस्य चैकत्वं बधसामान्यादिति, क्रियाशब्देन तु मृषाप्रत्यया अदत्तादानप्रत्यया आध्यात्मिकी मानप्रत्यया मित्रद्वेषप्रत्यया मायाप्रत्यया लोभप्रत्यया ऐयापथिकीत्यष्टविधा क्रियोक्ता, तदेकत्वञ्च करणमात्रसामान्यादिति, दण्डक्रिययोश्च स्वरूपविशेषमुपरिष्टात् स्वस्थान एव वक्ष्याम इति । अकियावत्त्वनिरासश्चात्मन एवं, यैः किलाक्रियावत्त्वमभ्युपगतमात्मनस्तैोक्तृत्वमप्यभ्युपगतमतो भुजिक्रियानिवर्त्तनसामथ्र्ये सति भोक्तृत्वमुपपद्यते तदेव च क्रिया-| वत्वं नामेति, अथ प्रकृतिः करोति पुरुषस्तु भुले प्रतिबिम्बन्यायेनेति, तवयुक्तम्, कथश्चित् सक्रियत्वमन्तरेण प्रकृत्युपधानयोगेऽपि प्रतिविम्बभावानुपपत्तेः, रूपान्तरपरिणमनरूपत्वात् प्रतिबिम्बस्येति, अथ प्रकृतिविकाररूपाया बुद्धेरेव सुखाद्यर्थप्रतिविम्बनं नात्मनः, तर्हि नास्य भोगः, तदवस्थत्वात्तस्येति, अत्रापि बहु वक्तव्यं ततु स्थानान्तरादवसेयमिति ॥ उक्तस्वरूपस्यात्मन आधारस्वरूपनिरूपणायाह-'एगे लोए' एकोऽविवक्षितासङ्ख्यप्रदेशाधस्तिर्यगादिदिग्भेदतया लोक्यते-दृश्यते केवलालोकेनेति लोकः-धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः, तदुक्तम्-"धर्मादीनां वृत्ति
DAREucatanAL
दंड, क्रिया, लोक, अलोक शब्दस्य व्याख्या
~37~