________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], नियुक्ति : [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
Gee
प्रत सूत्रांक ||२२||
दीप अनुक्रम [५५६]
9899999999999999609
र व्यमिति, दुःखमित्येतदपि विविधबाधनयोगरूपमिति न फलादतिरिच्यते, जन्ममरणप्रबन्धोच्छेदरूपतया सर्वदुःखप्रहाणलक्षणो
मोक्षः, स चासाभिरुपात्त एवेति । किमित्यनवधारणात्मकः प्रत्ययः संशयः, असाबपि निर्णयज्ञानवदात्मगुण एवेति, येन प्रयुक्तः प्रवर्तते तत्प्रयोजनं, तदपीच्छाविशेषतादात्मगुण एव, अविप्रतिपनिविषयापनोऽथों दृष्टान्तः, असावपि जीवाजीवयोरन्यतर, | न चैतावताऽस्य पृथकपदार्थता युक्ता, अतिप्रसाद् , अवयवग्रहणेन च तस्योत्तरत्र ग्रहणादिति । सिद्धान्तचतुर्विधः, तद्यथा-- | सर्वतत्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतत्रसिद्धान्तः १, यथा स्पर्शनादीनीन्द्रियाणि स्पर्शादय इन्द्रियार्थाः प्रमाणैः प्रमेयस्य ग्रहणमिति १, समानतन्त्रसिद्धः परतत्रासिद्धः प्रतितसिद्धान्तो यथा साझ्यानां नासत आत्मलाभो न च सतः सर्वथा विनाश इति, तथा
चोक्तम्---"नासतो जायते भावो, नाभावो जायते सतः" इति २, यत्सिद्धावन्यस्वार्थस्यानुपङ्गेण सिद्धिः सोऽधिकरणसिद्धान्तः ||३, यथेन्द्रियव्यतिरिक्तो ज्ञाताऽऽत्माऽस्ति दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति, तत्रानुषङ्गियो• १ इन्द्रियनानाख २ नियतविष
याणीन्द्रियाणि ३ खविषयग्रहणलिङ्गानि च ४ ज्ञातुज्ञानसाधनानि ५ स्पादिगुणव्यतिरिक्तं द्रव्यं ६ गुणाधिकरण ७ मनियत-18 | विषयाश्चेतनाः ८ इति, पूर्वार्थसिद्धावतेाः सिध्यन्ति, नैतेविना पूर्वार्थः संभवतीति ३, अपरीक्षितार्थाभ्युपगमाचद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ४, तद्यथा, किं शब्द इति विचारे कश्चिदाह-अस्तु द्रव्यं शब्दः, स तु किं नित्योऽथानित्यः ?, इत्येवं विचारः, स चायं चतुर्विधोऽपि सिद्धान्तो न ज्ञानविशेषादतिरिच्यते, ज्ञानविशेषस्थात्मगुणखाद्गुणस्य च गुणिग्रहणेन ग्रहणाद् न पृथगुपादानमिति४ । अथावयवाः प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि, तत्र साध्यनिर्देशः प्रतिज्ञा, यथा नित्यः शब्दोनित्यो || वेति, हिनोति-गमयति प्रतिज्ञातमर्थमिति हेतुः, तद्यथा-उत्पत्तिधर्मकखात्, साध्यसाधम्र्यवैधम्यंभावे दृष्टान्तः उदाहरणं, यथा
Hraumurary.org
~4624