________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [१२], नियुक्ति: [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सूत्रकृता
१२ समकसरणाध्य०
प्रत सूत्रांक ||१२||
शीलाङ्काचाययवचियुतं ॥२१८॥
दीप
'जानन्ति' परिच्छिन्दन्ति, न च शून्यादिवादेष्वेतद् घटते, तसादप्रमाणकमेव तैरभिधीयत इति ॥९॥ एवं व्याख्याते सति आह परः-ननु व्यभिचार्यपि श्रुतमुपलभ्यते, तथाहि चतुर्दशपूर्व विदामपि षट्स्थानपतिसमागम उद्घष्यते किं पुनरष्टाङ्गनिमित्तशास्त्रविदाम् , अत्र चाङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छन्दसार्धत्रयोदश शतानि सूत्र तावन्त्येव सहस्राणि वृत्तिस्तावप्रमाणलक्षा परिभाषेति, अङ्गास त्वर्धत्रयोदशसहस्राणि सूत्रं, तत्परिमाणलक्षावृत्तिरपरिमितं वार्तिकमिति, तदेवमष्टाजनिमित्तवेदि-1 नामपि परस्परतः पदस्थानपतितत्वेन व्यभिचारित्वमत इदमाह-'केई'त्यादि, छान्दसत्वात्प्राकृतशेल्या वा लिङ्गच्यत्ययः, कानिचिनिमित्तानि 'तथ्यानि' सत्यानि भवन्ति, केषाश्चित्तु निमित्तानां निमित्तवेदिनां वा बुद्धिवैकल्यात्तथाविधक्षयोपशमाभावेन तत् | निमित्वज्ञान विपर्यासं' व्यत्ययमेति, आर्हतानामपि निमित्तव्यभिचारः समुपलभ्यते, किं पुनस्तीथिकानां , तदेवं निमित्तशास्त्रस्य | व्यभिचारमुपलभ्य 'ते' अक्रियावादिनो 'विद्यासद्भाव' विद्यामनधीयानाः सन्तो निमित्तं तथा चान्यथा च भवतीति मत्वा ते |'आहंसु विजापलिमोक्खमेव' विद्यायाः श्रुतस्य व्यभिचारेण तस्य परिमोक्ष-परित्यागमाहुः उक्तवन्तः, यदिवा-क्रियाया | |अभावाद्विद्यया-ज्ञानेनैव मोक्षं-सर्वकर्मच्युतिलक्षणमाहुरिति । कचिच्चरमपादस्यैवं पाठः, 'जाणामु लोगंसि वयंति मंद'त्ति, विद्यामनधीत्यैव स्वयमेव लोकमसिन् वा लोके भावान् स्वयं जानीमः, एवं 'मंदा' जडा बदन्ति, न च निमित्तस्य तथ्यता, तथाहि-कस्यचित्कचित्क्षुतेऽपि गच्छतः कार्यसिद्धिदर्शनात् , सकुनसद्भावेऽपि कार्यविघातदर्शनाद्, अतो निमित्तबलेनादेशविधायिनां मृपावाद एवं केवलमिति, नैतदस्ति, न हि सम्यगधीतस्य श्रुतस्वार्थे विसंवादोऽस्ति, यदपि षट्स्थानपतितसमुद्घोष्यते १ बोधवैकस्यात् यद्वा निमित्तशम्देन निमितशास्त्राणि तेन तद्विषयकवुद्धिर्वकल्यात् ।
अनुक्रम [५४६]
२१८॥
~447