________________
आगम
(०२)
प्रत
सूत्रांक
||३८||
दीप
अनुक्रम
[ ५३४]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [३८...], निर्युक्तिः [११८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित......आगमसूत्र -[ ०२], अंग सूत्र- [०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सूत्रकृता शीलाङ्का
चार्यय
चियुर्त
॥२०८॥
| तथोपशमिकसम्यग्दृष्टीनामौद विकोपशमिकक्षायोपशमिकपारिणामिकभावसद्भावाच्चेति, पञ्चकसंयोगस्तु क्षायिकसम्यग्दष्टीनामुपशमश्रेण्यां समस्तोपशान्तचारित्रमोहानां भावपञ्चकसद्भावाद्विज्ञेय इति, तदेवं भावानां द्विकत्रिकचतुष्कपञ्चकसंयोगात्संभविनः सान्निपातिकभेदाः षड् भवन्ति, एत एवं त्रिकसंयोगचतुष्कसंयोगगतिभेदात्पश्ञ्चदशधा प्रदेशान्तरेऽभिहिता इति । तदेवं पविधे भावे भावसमवसरणं भावमीलनमभिहितम्, अथवा अन्यथा भावसमवसरणं निर्बुक्तिकदेव दर्शयति-क्रियां जीवादिपदार्थोऽस्तीत्या|दिकां वदितुं शीलं येषां ते क्रियावादिनः, एतद्विपर्यस्ता अक्रियावादिनः, तथा अज्ञानिनो - ज्ञाननिहववादिनः तथा 'वैनयिका' विनयेन चरन्ति तत्प्रयोजना वा वैनयिकाः, एषां चतुर्णामपि सप्रभेदानामाक्षेपं कृत्वा यत्र विक्षेषः क्रियते तद्भावसमवसरणमिति, एतच्च स्वयमेव नियुक्तिकारोऽन्त्यगाथया कथयिष्यति । साम्प्रतमेतेषामेवाभिधानान्यर्थतादर्शनद्वारेण स्वरूपमा विष्कुर्वन्नाह-जीवादिपदार्थसद्भावोऽस्त्येवेत्येवं सावधारणक्रियाभ्युपगमो येषां ते अस्तीति क्रियावादिनः, ते चैवंवादिखान्मिथ्यादृष्टयः तथाहि यदि ४ जीवोऽस्त्येवे[वेऽस्तितमेवे ]त्येवमभ्युपगम्यते, ततः सावधारणत्याच कथञ्चिन्नास्तीत्यतः खरूपस चावत्पररूपापचिरपि स्याद् एवं च नानेकं जगत् स्यात्, नचैतदृष्टमिष्टं वा । तथा नास्त्येव जीवादिकः पदार्थ इत्येवंवादिनोऽक्रियावादिनः, तेऽप्यसद्भूतार्थप्रतिपादनान्मिथ्यादृष्टय एव, तथाहि एकान्तेन जीवास्तित्वप्रतिषेधे कर्तुरभावानास्तीत्येतस्यापि प्रतिषेधस्याभावः, तदभावाच सर्वास्तित्वमनिवारितमिति । तथा न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः, ते ह्यज्ञानमेव श्रेय इत्येवं वदन्ति एतेऽपि मिथ्यादृष्टय एव, तथाहिअज्ञानमेव श्रेय इत्येतदपि न ज्ञानमृते भणितुं पायेंते, तदभिधानाचावश्यं ज्ञानमभ्युपगतं तैरिति । तथा वैनयिका विनयादेव केवलात्खर्गमोक्षावाप्तिमभिलषन्तो मिथ्यादृष्टयो, यतो न ज्ञानक्रियाभ्यामन्तरेण मोक्षावाप्तिरिति । एषां च क्रियावाद्यादीनां
Education International
समवसरण शब्दस्य निक्षेपा:
For Para Use Only
~ 427 ~
१२ समय
सरणाध्य० भावानां क्रियादिवादिनां वा समवसरणं
॥२०८॥
war