SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१३०] दीप अनुक्रम [१४२ ] श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१३०],निर्युक्तिः [२२७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः श्रीआचाराङ्गवृत्तिः (शी०) ॥ १८१ ॥ ॐ 99 [भाग-2] “आचार”मूलं - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) उक्तः प्रथमोद्देशकः । साम्प्रतं द्वितीयव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः - इह अनन्तरोदेश के सम्यग्वादः प्रतिपादितः, स च प्रत्यनीकमिथ्यावादन्युदासेनात्मलाभं लभते, व्युदासश्च न परिज्ञानमन्तरेण, परिज्ञानं च न विचारमृते, अतो मिथ्यावादभूततीर्थिक मत विचारणायेदमुपक्रम्यते अनेन सम्बन्धेनायातस्यास्योदेशकस्येदमादिसूत्रं - 'जे आसवा' इत्यादि, यदिवेह सम्यक्त्वमधिकृतं तच्च सप्तपदार्थश्रद्धानात्मकं तत्र मुमुक्षुणाऽवगतशस्त्रपरिज्ञाजीवाजीवपदार्थेन संसारमोक्षकारणे निर्णेतव्ये, तत्र संसारकारणमात्रवस्तग्रहणाच्च बन्धग्रहणं, मोक्षकारणं तु निर्जरा तग्रहणाच्च संवरस्तत्कार्यभूतश्च मोक्षः सूचितो भवतीत्यत आश्रवनिर्जरे संसारमोक्षकारणभूते सम्यक्त्वविचारायाते दर्शयितुमाह जे आसवा ते परिस्तवा जे परिस्सवा ते आसवा, जें अणासवा ते अपरिस्सवा जे अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयं च आणाए अभिसमिच्चा पुढो पवेइयं ( सू० १३० ) 'य' इति सामान्यनिर्देशः, आश्रवत्यष्टप्रकारं कर्म यैरारम्भैस्ते आस्रवाः, परिः समन्तात्स्रवति - गलति यैरनुष्ठानविशेषैस्ते परिस्रवाः य एवासवाः-कर्म्मबन्धस्थानानि त एव परिस्रवाः कर्मनिर्जरास्पदानि इदमुक्तं भवति यानि इतरजनाचरितानि खगङ्गनादीनि सुखकारणतया तानि कर्म्मबन्धहेतुत्वादास्रवाः, पुनस्तान्येव तत्त्वविदां विषयसुखपरामुखानां निःसारतया संसारसरणिदेश्यानीतिकृत्वा वैराग्यजनकानि अतः परिस्रवाः - निर्जरास्थानानि । सर्ववस्तूना Educatin internation चतुर्थ अध्ययने द्वितीय उद्देशकः 'धर्मप्रवादी- परीक्षा आरब्धः, For Pale Only ~77~ सम्य० ४ उद्देशका २ ॥ १८१ ॥
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy