________________
आगम
(०१)
प्रत
सूत्रांक
[१२६]
दीप
अनुक्रम [१३९ ]
99
[भाग-2] “आचार”मूलं - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१२६],निर्युक्ति: [२२७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
परिणतेः क्षयोपशमापादनागुणवत्येवेति यत्किञ्चिदेतत् प्राणिन आत्मानं वा दण्डयतीति दण्डः, स च मनोवाक्कायलक्षणः, उपरतो दण्डो येषां ते तथा, तद्विपर्ययेणानुपरतदण्डाः, तेषूभयरूपेष्वपि तत्रोपरतदण्डेषु तत्स्थैर्यगुणान्तराधानार्थ देशना, इतरेषु तूपरतदण्डस्वार्थमिति, उपधीयते सङ्गृह्यत इत्युपधिः द्रव्यतो हिरण्यादिः भावतो माया, सह उपधिना वर्त्तन्त इति सोपधिकास्त द्विपर्ययेणानुपधिकास्तेष्विति, संयोगः-सम्बन्धः पुत्रकलत्रमित्रादिजनितस्तत्र रताः संयोगरतास्तद्विपर्ययेणैकत्वभावनाभाविता असंयोगरतास्तेष्विति, तदेवमुभयरूपेष्वपि यद्भगवता धर्मदेशनाऽकारि तत् 'तथ्यं' सत्यमेतदिति, चशब्दो नियमार्थः, तथ्यमेवैतद्भगवद्वचनं यथाप्ररूपितवस्तुसद्भावात्तथ्यता वचसो भवतीत्यतो वाच्यमपि तथैवेति दर्शयति तथा चैतद्वस्तु यथा भगवान् जगाद, यथा-सर्वे प्राणा न हन्तव्या इत्यादि, एवं सम्यग्दर्शनं श्रद्धानं विधेयम्, एतच्चास्मिन्नेव मौनीन्द्रप्रवचने सम्यगमोक्षमार्गविधायिनि समस्तदम्भप्रबन्धोपरते प्रकर्षेणोच्यते प्रोच्यत इति, न तु यथा अन्यत्र 'न हिंस्यात्सर्वभूतानी' त्यभिधायान्यत्र वाक्ये यज्ञपशुवधाभ्यनुज्ञानात् पूर्वोत्तरबाधेति ॥ तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ यद्विधेयं तद्दर्शयितुमाह
आइन नि ननिक्खिवे जाणित्तु धम्मं जहा तहा, दिट्ठेहिं निव्वेयं गच्छिज्जा, नो लोगस्सेसणं चरे ( सू० १२७ ) 'तत्' तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमादाय गृहीत्वा तत्कार्याकरणतो 'न निहेति न गोपयेत् तथाविधसंसर्गा
For Parts Only
~74~
www.landbrary or