________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१२५....,नियुक्ति: [२१९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१२५]
दीप अनुक्रम [१३८]
श्रीआचा-||3|चारित्रमप्युपशमश्रेण्यामौपशमिक १ कपायक्षयोपशमात् क्षायोपशमिकं चारित्रं २ चारित्रमोहनीयक्षयात्क्षायिकं ३, ज्ञाने सम्य०४ राङ्गवृत्तिः तु भावसम्यग् द्विधा ज्ञातव्यं, तद्यथा-क्षायोपशमिकं क्षायिकं च, तत्र चतुर्विधज्ञानावरणीयक्षयोपशमात् मत्यादि चतु-18| (शी०) विध क्षायोपशमिकं ज्ञानं, समस्तक्षयात्क्षायिक केवलज्ञानमिति । तदेवं त्रिविधेऽपि भावसम्यक्त्वे दर्शिते सति परश्चो-|
दयति-यद्येवं त्रयाणामपि सम्यग्वादसम्भवे कधं दर्शनस्यैव सम्यक्त्ववादो रूढो? यदिहाध्ययने व्यावयेते, उच्यते, ॥ १७६॥
तद्भावभाविवादितरयोः, तथाहि-मिथ्यादृष्टेस्ते न स्तः, अत्र च सम्यक्त्वप्राधान्यख्यापनाय अन्धेतरराजकुमारद्वयेन वालाङ्गनाद्यवबोधार्थ दृष्टान्तमाचक्षते-तद्यथा-उदयसेनराज्ञो वीरसेनसूरसेनकुमारद्वयं, तत्र वीरसेनोऽन्धः, स च त
त्यायोग्या गान्धर्वादिकाः कला ग्राहितः, इतरस्त्यभ्यस्तधनुर्वेदो लोकश्लाध्या पदवीमगमत् , एतच्च समाकर्ण्य वीरसेने&ानापि राजा विज्ञप्तो यथाऽहमपि धनुर्वेदाभ्यासं विदधे, राज्ञाऽपि तदाग्रहमवगम्यानुज्ञातः, ततोऽसौ सम्यगुपाध्यायो
पदेशात् प्रज्ञातिशयादभ्यासविशेषाच शब्दवेधी सञ्जज्ञे, तेन चारूढयौवनेन स्वभ्यस्तधनुर्वेदविज्ञानक्रियेणागणितचक्षुदर्शनसदसद्भावेन शब्दवेधित्वावष्टम्भात्परबलोपस्थाने सति राजा युद्धायादेशं याचितः, तेनापि याच्यमानेन वितेरे, वीरसेनेन च शब्दानुवेधितया परानीके. जजम्भे, परैश्चाबगतकुमारान्धभावैर्मूकतामालम्ब्यासी जगहे, सूरसेनेन च विदितवृतान्तेन राजानमापृच्छ्य निशित शरशतजालावष्टब्धपरानीकेन मोचितः । तदेवमभ्यस्तविज्ञानक्रियोऽपि चक्षु६ विकलत्वान्नालमभिप्रेतकार्यसिद्धये इति । एतदेव नियुक्तिकारो गाथयोपसंहर्तुमाह
॥ १७६॥ कुणमाणोऽवि य किरियं परिचयंतोवि सयणधणभोए। दितोऽपि दुहस्स उरंन जिणइ अंघो पराणीयं ॥२२०॥
~67~