________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [१२१],नियुक्ति : [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [१२१]
दीप
नहरिद्रालक्षणसूचको लोभस्य, तथा यावज्जीवसंवत्सरचातुर्मासपक्षस्थित्याविर्भावकश्चेति । तदेवं क्रोधमानमायालोभवमनादेव पारमार्थिकः श्रमणभावो, न तत्सम्भवे सति, यत उक्तम्-सामण्णमणुचरंतस्स कसाया जस्स उक्कडा हुंति । मन्नामि उच्छुपुष्फ व निष्फलं तस्स सामण्णं ॥ १॥ अजिअं चरित्तं देसूणाएवि पुचकोडीए । तंपि कसाइयमेत्तो हारेइ नरो मुहुत्तेणं ॥ २ ॥"। स्वमनीषिकापरिहारार्थ गौतमस्वाम्याह-एय' मित्यादि, 'एतद्' यत्कषायवमनमन|न्तरमुपादेशि तत् 'पश्यकस्य दर्शनं' सर्व निरावरणत्वासश्यति-उपलभत इति पश्यः स एव पश्यका-तीर्थकृत् श्रीवर्द्ध
मानस्वामी तस्य दर्शनम्-अभिप्रायो यदिवा दृश्यते यथावस्थितं वस्तुतत्त्वमनेनेति दर्शनम्-उपदेशो, न स्वमनीषिका, |किम्भूतस्य पश्यकस्य दर्शनमित्याह-'उवरय' इत्यादि, उपरतं द्रव्यभावशस्त्रं यस्यासावुपरतशस्त्रः शस्त्राद्वोपरतः शस्त्रोपरतः, भावे शखं स्वसंयमः कपाया वा, तस्मादुपरतः, इदमुक्तं भवति-तीर्थकृतोऽपि कषायवमनमृते न निरावरणसकलपदार्थयाहिपरमज्ञानावाप्तिः, तदभावे च सिद्धिवधूसमागमसुखाभावः, एवमन्येनापि मुमुक्षुणा तदुपदेशवर्तिना तन्मार्गानुयायिना कषायवमनं विधेयमिति, शस्त्रोपरमकार्य दर्शयन् पुनरपि तीर्थकरविशेषणमाह-'पलियंतकरस्स' पर्यन्तं कर्मणां संसारस्य वा करोति तच्छीलश्चेति पर्यन्तकरस्तस्यैतद् देशनमिति सण्टङ्कः । यथा च तीर्थकृत् संयमापका|रिकषायशस्रोपरमात्कर्मपर्यन्तकृदेवमन्योऽपि तदुक्तानुसारीति दर्शयितुमाह-आयाण' मित्यादि, आदीयते-गृह्यते
१ आमण्यमनुबरतः कषाया यस्योत्कटा भवन्ति । भन्ये इपुष्पयन निष्फलं तस्य श्रामण्यम् ॥ १ ॥ यति चारित्रं देशोनयाऽपि पूर्वकोश्या । तदपि। पायितमात्रो हारयति नरो मुहूर्तेन ॥ २ ॥
अनुक्रम [१३४]
~56~