SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१७४] दीप अनुक्रम [५०८ ] [भाग-2] “आचार”मूलं ” अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [३], अध्ययन [ - ], उद्देशक [-], मूलं [ १७४...], निर्युक्तिः [३२८] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः श्रीआचारावृत्तिः (शी०) ॥ ४१८ ॥ रोत्यादौ तावत्सघृणहृदयः किञ्चिदशुभं, द्वितीयं सापेक्षो विमृशति च कार्यं च कुरुते । तृतीयं निःशङ्को विगतघृणमन्यत्प्रकुरुते ततः पापाभ्यासात्सततमशुभेषु प्ररमते ॥ १ ॥ ॥ प्रशस्तभावनामाहदंसणनाणचरिते तववेरग्गे य होइ उ पसत्था । जा य जहा ता य तहा लक्खण वुच्छं सलक्खणओ ॥ ३२९ ॥ दर्शनज्ञान चारित्र तपोवैराग्यादिषु या यथा च प्रशस्त भावना भवति तां प्रत्येकं लक्षण तो वक्ष्य इति ॥ दर्शनभावनार्थमाह---- तित्थगराण भगवओ पवयणपावयणिअइसइडीणं । अभिगमणनमणदरिसणकित्तणसंपूणाणणा ॥ ३३० ॥ तीर्थकृतां भगवतां प्रवचनस्य द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनाम् - आचार्यादीनां युगप्रधानानां, तथाऽतिशयिनामृद्धिमतां - केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमर्षौषध्यादिप्राप्तऋद्धीनां यदभिगमनं गत्वा च दर्शनं तथा गुणोत्कीर्त्तनं संपूजनं गन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति ॥ किच जम्माभि सेयनिक्खमणचरणनाणुप्पया य निव्वाणे । दियलोअभवण मंदरनंदीसर भोमनगरे सुं ।। ३३१ ॥ अद्वावयमुचिंते गयग्गपयए य धम्मचक्के य । पासरहावत्तनगं चमरुप्पायं च चंदामि ॥ ३३२ ॥ तीर्थकृतां जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु तथा देवलोकभवनेषु मन्दरेषु तथा नन्दीश्वरद्वीपादौ भौमेषु च पातालभवनेषु यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथायामन्ते क्रियेति, एवमष्टापदे, तथा श्रीमदुज्जयन्तगिरी 'गजाग्रपदे' दशार्णकूटवर्त्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां Education International For Parts Only ~551~ श्रुतस्कं० २ चूलिका ३ भावनाध्य. ॥ ४१८ ॥
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy