________________
आगम (०१)
[भाग-2] “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [१], मूलं [१९६...],नियुक्ति: [२६५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचाराजवृत्तिः (शी०)
विमो०८ उहेशकार
सूत्रांक [१९६]
॥२६२॥
दीप अनुक्रम [२०९]
सपरकममाएसो जह मरणं होह अजवइराणं । पायवगमणं च तहा एयं सपरकर्म मरणं ॥२६५ ॥ सह पराक्रमेण वर्तत इति सपराक्रम, किं तत्-मरणं आदिश्यते-इत्यादेशः आचार्यपारम्पर्यश्रुत्यायातो वृद्धवादो यमैतिह्यमाचक्षते, स आदेशो 'यथे'त्युदाहरणोपन्यासार्थः, यथैतत्तथाऽन्यदप्यनया दिशा द्रष्टव्यं, 'आर्यवैरा'वैरस्वामिनो यथा तेषां मरणमभूत् तथा पादपोपगमनं च, एतच्च सपराक्रम मरणमन्यत्राप्यायोज्यमिति गाथार्थः।। भावार्थस्तु कथानकादवसेयः, तत्र प्रसिद्धमेव यथाऽऽर्यवैरैविस्मृतकर्णाहितशृङ्गाबेरैः प्रमादादवगतासन्नमृत्युभिः सपराक्रमैरेव रचावःशिखरिणि पादपोपगमनमकारीति । साम्प्रतमपराक्रम दर्शयितुमाह
अपरक्कममाएसो जह मरणं होइ उदहिनामाणं । पाओवगमेऽवि तहा एयं अपरक्कम मरणं ॥ २६६ ॥ आ न विद्यते पराक्रमः-सामर्थ्यमस्मिन्नित्यपराक्रम, किं तत्?-मरणं, तच्च यथा जङ्काबलपरिक्षीणानामुदधिनानाम्-आर्यसमु द्राणां मरणमभूद्, अयमादेशो-दृष्टान्तो वृद्धवादायात इति, पादपोपगमनेऽपि तथैवादेशं जानीयाद् यथा पादपोपगमनेन तेषां मरणमभूदिति, एतद्-अपराक्रम मरणं यदार्यसमुद्राणां सञ्जातमेवमन्यत्राप्यायोज्यमिति गाथाऽक्षरार्थः॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्-आर्यसमुद्रा आचार्याः प्रकृतिकृशा एवासन् , पश्चाच्च तैर्जावलपरिक्षीणः शरीराल्लाभमनपक्ष्य तत्तित्यक्षुभिर्गच्छस्थैरेवानशनं विधाय प्रतिश्रयैकदेशे निहारिमं पादपोपगमनमकारि ।। साम्प्रतं व्यापातिममाह
वाघाइयमाएसो अवरडो हुज्ज अन्नतरएणं । तोसलि महिसीह हओ एयं वाघाइयं मरणं ॥ २६७॥ विशेषेणाघातो व्याघातः-सिंहादिकृतः शरीरविनाशस्तेन निवृत्तं तत्र वा भयं व्याघातिम, कश्चिरिसंहाद्यन्यतरेणाप
॥२६२॥
~239~