________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [२], मूलं [१८४],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१८४]
दीप अनुक्रम [१९७]
अदुवा दुभि अदुवा तत्थ भेरवा पाणा पाणे किलेसंति, ते फासे पुट्रो धीरे अहियासिजासि तिबेमि (सू० १८४)॥धूताध्ययने द्वितीयोदेशकः ॥६-२॥ त्यक्त्वा सा परीपहकृतां विनोतसिका परीषहापादितान् स्पर्शान-दुःखानुभवान् 'स्पृशेत्' अनुभवेत् सम्यगधिसहेत, स किम्भूतः?-सम्यग् इत-गतं दर्शनं यस्य स समितदर्शनः, सम्यग्दृष्टिरित्यर्थः । तत्सहिष्णवश्च किम्भूताः स्युरित्याह-भोः' इत्यामन्त्रणे 'एते' परीषहसहिष्णवो निष्किञ्चना निर्ग्रन्था भावनग्ना 'उक्ताः' अभिहिताः, यस्मिन्मनुष्यलोके अनागमनं धर्मो येषां तेऽनागमनधर्माणः, यथाऽऽरोपितप्रतिज्ञाभारवाहित्वान्न पुनर्गृहं प्रत्यागमनेप्सव इति, किं च-आज्ञाप्यतेऽनयेत्याज्ञा तया मामकं धर्म सम्यगनुपालयेत् तीर्थकर एवमाहेति, यदिवा धर्मानुष्ठाय्येवमाह-धर्म एवैको मामकः अन्यत्तु सर्वं पारक्यमित्यतस्तमहमाज्ञया-तीर्थकरोपदेशेन सम्यकरोमीति, किमित्याज्ञया धर्मोऽनुपाल्यत इत्यत आह--'एषः' अनन्तरोक्तः 'उत्तरवाद' उत्कृष्टवाद इह मानवानां व्याख्यात इति । किं च
-'अत्र' अस्मिन् कर्मधुननोपाये संयमे उप-सामीप्येन रत उपरतः तद्-अष्टप्रकारं कर्म 'झोषयन्' क्षपयन धर्म चरेदिति, किं चापरं कुर्यादित्याह-आदीयत इत्यादानीयं-कर्म तत्परिज्ञाय मूलोत्तरप्रकृतिभेदतो ज्ञात्वा 'पर्यायेण' श्रामण्येन विवेचयति, क्षपयतीत्यर्थः । अत्र चाशेषकर्मधुननासमर्थं तपस्तद्वाह्यमधिकृत्योच्यते-'इह' अस्मिन् प्रवचने 'एकेषां' शिथिलकर्मणामेकचर्या भवति-एकाकिविहारप्रतिमाऽभ्युपगमो भवति, तत्र च नानारूपाभिग्रहविशे
For
A
asurary.com
~200~