SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [१], मूलं [१७२],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१७२] गाथा ॥ प्रबलमोहोदयावृतान् संयमेऽवसीदतः पश्यत यूयं, किम्भूतानित्याह-नात्मने हिता प्रज्ञा येषां ते अनात्मप्रज्ञास्तानिति, द कुतः पुनः संयमानुष्ठानेऽवसीदन्ति इत्यारेकायां सोऽहं ब्रवीमि । अत्र दृष्टान्तद्वारेण सोपपत्ति-फि कारणमित्याह सेशब्दस्तच्छब्दार्थे, अपिशब्दश्चार्थे, स च वाक्योपन्यासार्थः, तद्यथा च कूर्मों महाद्दे विनिविष्टं चित्तं यस्यासी विनिविष्टचित्तो-गायमुपगतः पलाशैः-पत्रैः प्रच्छन्नः पलाशप्रच्छन्नः, सूत्रे तु प्राकृतत्वाद्यत्ययः, 'उम्मग्गति विवर उन्मज्यतेऽनेनेति वोन्मज्यम् , ऊर्द्ध वा मार्गमुन्मार्ग, सर्वथा अरन्ध्रमित्यर्थः , तदसौ न लभतः इत्यक्षरार्थः । भावार्थस्त्वयम्कश्चिद् इदो योजनशतसहस्रविस्तीर्णः प्रवलशेषालघनकठिनवितानाच्छादितो नानारूपकरिमकरमत्स्यकच्छपादिजलचराश्रयः, तन्मध्ये चैक विस्रसापरिणामापादितं कच्छपग्रीवामात्रप्रमाणं विवरमभूत, तत्र चैकेन कूर्मेण निजयूथात् है। प्रचष्टेन बियोगाकुलतयेतस्ततश्च शिरोधरां प्रक्षिपता कुतश्चित्तथाविधभवितव्यतानियोगेन तद्न्ने प्रीवानिर्गमनमाप्त, तत्र चासौ शरच्चन्द्रचन्द्रिकया क्षीरोदसलिलप्रवाहकल्पयोपशोभितं विकचकुमुदनिकरकृतोपचारमिव तारकाकीण नभस्तलमीक्षाञ्चके, दृष्ट्वा चातीव मुमुदे, आसीच्चास्य मनसि-यदि तानि मर्याण्येतत्स्वर्गदेश्यमद्दष्टपूर्व मनोरथानामप्यविष-18 यभूतं पश्यन्ति ततः शोभनमापद्यत इत्येतदवधार्य तूर्णमन्वेषणाय बन्धूनामितश्चेतश्च बभ्राम, अवाप्य च निजान् पुनरपि तद्विवरान्वेषणार्थं सर्वतः पर्यटति, न च तद्विवरं विस्तीर्णतया इदस्य प्रचुरतया यादसामीक्षते, तत्रैव च विनादशमुपयात इति । (अस्यायमर्थोपनयंः-संसारहूदे जीवकूर्मः कर्मशेवालविवरतो मनुष्यार्यक्षेत्रसुकुलोत्पत्तिसम्यक्त्वावसा-18 ननभस्तलमासाद्य मोहोदयात् ज्ञात्यर्थं विषयोपभोगाय वा सदनुष्ठानविकलो न सफलतां नयति, तत्त्यागे कुतः पुनः COCOCCEOCRACROSRANAM CANCHORECACANCS दीप अनुक्रम [१८६... १९०] ~182
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy