SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१५७] दीप अनुक्रम [१७०] [भाग-2] “आचार” मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) 39 श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [४], मूलं [१५७],निर्युक्तिः [२४९] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः अज्ञानोदयेन वा 'मुह्यति' कार्याकार्यविचार विवेक विकलो भवति, स च मोहमोहितः केनचिच्छिक्षणार्थमभिहितो मिथ्याहष्टिना वा बाचा तिरस्कृतो जात्यादिमदस्थानान्यतरसद्भावेनोन्नतमानमन्दरारूढः कुप्यति, मामध्येवमयं तिरस्करोति, धिग्मे जातिं पौरुषं विज्ञानं चेत्येवमभिमानग्रहगृहीतो वाडयात्रादपि गच्छान्निर्गच्छति, तन्निर्गतो वाऽधिकरणादिविडम्ब नयाऽऽत्मानं विडम्बयति, अथवोन्नम्यमानः केनचित् दुर्विदग्धेनाहोऽयं महाकुलप्रसूत आकृतिमान् पटुप्रज्ञो मृष्टवाक् समस्तशास्त्रवेता सुभगः सुखसेव्यो वेत्यादिना वचसा तथ्येनातथ्येन वोत्प्रास्यमान उन्नतमानो गर्वाध्मातो महता चारित्रमोहन मुह्यति संसारमोहेन बोह्यत इति । तस्य चोन्नतमानतया महामोहेन मुह्यतो मोहाच्च वाड्यात्रेणापि कुप्यतः कोपाच्च गच्छनिर्गतस्यानभिव्यक्तस्य भिक्षोर्ग्रामानुग्राममेकाकिनः पर्यटतो यत्स्यात्तदाह-तस्याव्यक्तस्यैकचरस्य पर्यटतः | सम्बाधयन्तीति सम्बाधाः पीडाः उपसर्गजनिता नानाप्रकारातङ्कजनिता वा भूयो भूयो वह्नयः स्युः, ताश्चैकाकिनाऽव्यक्तेन निरवद्यविधिना 'दुरतिक्रमा' दुरतिलङ्घनीयाः किम्भूतस्य दुरतिक्रमा इत्याह-तासां नानाप्रकारनिमित्तोत्या| पितानां बाधानामतिसहनोपायमजानानस्य सम्यकरणसहनफलं चापश्यतो दुरतिक्रमणीयाः पीडा भवन्ति, ततश्चातपीडाकूलीभूतः सन्नेषणामपि लङ्घयेत्, प्राण्युपमर्दमप्यनुमन्येत वाकण्टकनुदितः सन्नव्यक्ततया प्रज्वलेत, नैतद्भावयेद् यथा मत्कर्म्मविपाकापादिता एताः पीडाः परोऽत्र केवलं निमित्तभूतः, किं च " आत्मद्रोहममर्यादं मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत, नरकाञ्चिष्मदिन्धनम् ॥ १ ॥" इत्यादिका भावना आगमापरिमलितमतेर्न भवेदिति । एतत्प्रदर्श्य भगवान् विनेयमाह - 'एतद्' एकचर्याप्रतिपन्नस्य बाधादुरतिक्रमणीयत्वमजानानस्यापश्यतश्च 'ते' तव Education Internation For Parts Only ~ 146~ nary.org
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy