________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [३], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
दीप
अनुक्रम
दाच-"अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेच्छ्वं वा स्वर्गमेव वा ॥१॥" तथाऽन्ये अवते
-न जीवादयः पदार्थाः कालादिभ्यः स्वरूपं प्रतिपद्यन्ते, किं तर्हि ?, आत्मनः, कः पुनरयमात्मा ?, आत्माद्वैतवादिनां | || विश्वपरिणतिरूपः, उक्तश्च-"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् Mar" तथा-"पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्य"मित्यादि। एवमस्त्यजीवः, स्वतः नित्यः कालत इत्येवं सर्वत्र योग्यम् ॥
तथा अक्रियावादिनो-नास्तित्ववादिनः, तेषामपि जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाख्याः सप्त पदार्थाः स्वप-2 इरभेदद्वयेन तथा कालयहच्छानियतिस्वभावेश्वरात्मभिः पद्भिश्चिन्त्यमानाचतुरशीतिविकल्पा भवन्ति, तद्यथा-नास्ति
जीवः स्वतः कालतः नास्ति जीवः परतः कालत इति कालेन द्वौ लब्धौ, एवं यदृच्छानियत्यादिष्यपि द्वौ द्वौ भेदौ
प्रत्येकं भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, एवमजीवादिष्वपि प्रत्येकं द्वादशैते, सप्त द्वादशकाश्चतुरशीतिरिति १४। अयमत्रार्थः-नास्ति जीवः स्वतः कालत इति, इह पदार्थानां लक्षणेन सत्ता निश्चीयते कार्यतो वा, न चात्मन-13 हस्तादृगस्ति किञ्चिलक्षणं येन सत्ता प्रतिपद्येमहि, नापि कार्यमणूनामिव महीध्रादि सम्भवति, यच्च लक्षणकार्याभ्यां
नाभिगम्यते वस्तु तन्नास्त्येव, वियदिन्दीवरवत्, तस्मान्नास्त्यात्मेति । द्वितीयविकल्पोऽपि यच्च स्वतो नात्मानं विभर्ति गगनारविन्दादिक तत्सरतोऽपि नास्त्येव, अथवा सर्वपदार्थानामेव परभागादर्शनात्सर्वार्वाग्भागसूक्ष्मत्वाचोभयानुपलब्धेः| सर्वानुपलब्धितो नास्तित्वमध्यवसीयते, उक्तं च-"यावद् दृश्यं परस्तावद्भागः स च न दृश्यते" इत्यादि, तथा यहच्छातोऽपि नास्तित्वमात्मनः, का पुनर्यदृच्छा ?, अनभिसन्धिपूर्विकाऽर्थप्राप्तिर्यदृच्छा, “अर्कितोपस्थितमेव सर्वं, चित्रं
[३]
आत्मा विषयक अज्ञानताया: निरूपणं, क्रियावादि आदि विविध वादिनाया: मते आत्म स्वरूपं
[46]