________________
आगम
(०१)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम [3]
[भाग-1] “आचार” – अंगसूत्र- १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [३], निर्युक्ति: [६३]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ......आगमसूत्र [०१], अंग सूत्र - [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
॥ १६ ॥
श्रीआचा- ४ अनेन संसारिणः स्वरूपं दर्शयति, स एवंभूत आत्मा ममास्ति नास्तीति च एवंभूता संज्ञा केषाञ्चिदज्ञानावष्टब्धचेतसां राङ्गवृत्तिः न जायत इति । तथा 'कोऽहं' नारकतिर्यगूमनुष्यादिः पूर्व्वजन्मन्यासं १ को वा देवादिः 'इतो' मनुष्यादेर्जन्मनः (शी०) 2'च्युतो' विनष्टः 'इह' संसारे 'प्रेत्य' जन्मान्तरे 'भविष्यामि' उत्पत्स्ये इति, एषा च संज्ञा न भवतीति । इह च यद्यपि ४ सर्वत्र भावदिशाऽधिकारः प्रज्ञापकदिशा च, तथापि पूर्वसूत्रे साक्षात्मज्ञापक दिगुपाचाऽत्र तु भावदिगित्यवगन्तव्यम् । ननु चात्र संसारिणां दिग्विदिगागमनादिजा विशिष्टा संज्ञा निषिध्यते न सामान्यसंज्ञेति एतच्च संज्ञिनि धम्मिंण्यात्मनि सिद्धे सति भवति, 'सति धर्मिणि धर्म्माश्चिन्त्यन्त' इति वचनात् स च प्रत्यक्षादिप्रमाणगोचरातीतत्वाद्दुरुपपादः, तथाहि - नासावध्यक्षेणार्थसाक्षात्कारिणा विषयीक्रियते, तस्यातीन्द्रियत्वाद्, अतीन्द्रियत्वं च स्वभावविप्रकृष्टत्वाद्, अतीन्द्रियत्वादेव च तदव्यभिचारिकार्यादिलिङ्गसम्बन्धग्रहणासम्भवात् नाप्यनुमानेन तस्याप्रत्यक्षत्वे तत्सामान्यग्रह|णशक्त्यनुपपत्तेः नाप्युपमानेन, आगमस्यापि विवक्षायां प्रतिपाद्यमानायामनुमानान्तभावाद् अन्यत्र च बाह्येऽर्थे सम्बन्धाभावादप्रमाणत्वं प्रमाणत्वे वा परस्परविरोधित्वान्नाप्यागमेन, तमन्तरेणापि सकलार्थोपपत्तेर्नाप्यर्थापत्त्या, तदेवं | प्रमाणपश्च कातीतत्वात्षष्ठप्रमाणविषयत्वादभाव एवात्मनः । प्रयोगञ्चायम्- नास्त्यात्मा, प्रमाणपञ्चकविषयातीतत्वात्, खरविषाणवदिति, तदभावे च विशिष्टसंज्ञाप्रतिषेधाभावसम्भवेनानुत्थानमेव सूत्रस्येति एतत्सर्वमनुपासितगुरोर्वचः, तथाहि - प्रत्यक्ष एवात्मा, तद्गुणस्य ज्ञानस्य स्वसंवित्सिद्धत्वात्, स्वसंविन्निष्ठाश्च विषयव्यवस्थितयो, घटपटादीनामपि रूपादिगुणप्रत्यक्षत्वादेवाध्यक्षत्वमिति, मरणाभावप्रसङ्गाच्च न भूतगुणश्चैतन्यमाशङ्कनीयं तेषां सदा सन्निधानसम्भवादिति,
Educator International
आत्मा विषयक अज्ञानतायाः निरूपणं
For Parts Only
[43]
अध्ययनं १ उद्देशकः १
।। १६ ।।