SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [९७], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [९७]] दीप पाणिनः स्वकीयेन कर्मणा यस्मिन् स वयः-संसारस्तं प्रकरोति, एकैकस्मिन् काये दीर्घकालावस्थानाद्, यदिवा कारणे कार्योपचारात् स्वकीयेन नानाविधप्रमादकृतेन कर्मणा वयः-अवस्थाविशेषस्तमेकेन्द्रियादिकललार्बुदादितदहर्जातवालादिव्याधिगृहीतदारिद्यदौर्भाग्यव्यसनोपनिषातादिरूपं प्रकर्षण करोति-विधत्त इति । तस्मिंश्च संसारेऽवस्थाविशेषे वा प्राणिनः पीड्यन्ते इति दर्शयितुमाह-जंसिमें इत्यादि, यस्मिन् स्वकृतप्रमादापादितकर्मविपाकजनिते चतुर्गतिकसंसारे एकेहन्द्रियाद्यवस्थाविशेषे वा 'इमें प्रत्यक्षगोचरीभूताः 'प्राणा इत्यभेदोपचारात्याणिनः 'प्रव्यथिताः' नानाप्रकारैर्व्यसनोपनि-18 पातैः पीडिताः, सुखार्थिभिरारम्भप्रवृत्तैर्मोहाद्विपर्यस्तैः प्रमादवद्भिश्च गृहस्थैः पाषण्डिकैर्यत्याभासैश्चेति वा । यदि नामात्र प्रव्यथिताः प्राणिनस्ततः किमित्याह-'पडि' इत्यादि, एतत् संसारचक्रवाले स्वकृत कर्मफलेश्वराणामसुमतां गृहस्था| दिभिः परस्परतो वा कर्मविपाकतो वा प्रव्यथनं प्रत्युपेक्ष्य विदितवेद्यः साधुनिश्चयेन नितरां वा नियतं वा क्रियन्ते |नानादुःखावस्था जन्तवो येन तनिकरणं निकारः-शारीरमानसदुःखोत्पादनं तस्मै नो कर्म कुर्याद, येन प्राणिनां पीडो-|| पद्यते तमारम्भं न विदध्यादिति भावार्थः । एवं च सति किं भवतीत्याह-'एस' इत्यादि, येयं सावद्ययोगनिवृत्तिरेषा परिज्ञा-एतत्तत्त्वतः परिज्ञानं प्रकर्षणोच्यते प्रोच्यते, न पुनः शैलूपस्येव ज्ञानं निवृत्तिफलरहितमिति । एवं द्विविधयाऽपि ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्राणिनिकारपरिहारे सति किं भवतीत्याह-कम्मोवसंती'त्ति कर्मणाम्-अशेषद्वन्दवातात्मकसंसारतरुबीजभूतानामुपशान्तिः-उपशमः, कर्मक्षयः प्राणिनिकारक्रियानिवृत्तेर्भवतीत्युक्तं भवति । अस्य च कर्मक्षयप्रत्यूहस्य प्राणिनिकरणस्य मूलमात्मात्मीयग्रहः, तदपनोदार्थमाह अनक्रम [294]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy