________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [९६], नियुक्ति : [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा
(शी०) ॥१४॥
उक्तः पञ्चमोदेशकः, साम्प्रतं पष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-संयमदेहयात्रार्थ लोकमनुसरता साधुना लोक.वि.२ लोके ममत्वं न कर्त्तव्यमित्युद्देशार्थाधिकारोऽभिहितः, सोऽधुना प्रतिपाद्यते-अस्य चानन्तरसूत्रसम्बन्धो वाच्यो 'नवमनगारस्य जायत' इत्यभिहितम् , एतदेवात्रापि प्रतिपिपादयिषुराह
8 उद्देशका ६ से तं संबुज्झमाणे आयाणीयं समुद्राय तम्हा पावकम्मं नेव कुजा न कारवेजा (सू०९६) । यस्यानगारस्यैतत्पूर्वोक्तं न जायते सोऽनगारस्तत्-प्राण्युपघातकारि चिकित्सोपदेशदानमनुष्ठानं वा संबुद्ध्यमानःअवगच्छन् ज्ञपरिज्ञया प्रत्याख्यानपरिजया च परिहरन्नादातव्यम् आदानीयं तच्च परमार्थतो भावादानीयं ज्ञानदर्शन-12 चारित्ररूपं तद् 'उत्थाये'त्यनेकार्थत्वादादाय-गृहीत्वा अथवा सोऽनगार इत्येतदादानीयं-ज्ञानाद्यपवर्गककारणमित्येवं स-1 म्यगवबुज्यमानः सम्यक्सयमानुष्ठानेनोत्थाय-सर्व सावयं कर्म न मया कर्तव्यमित्येवं प्रतिज्ञामन्दरमारुह्य, क्त्वाप्रत्ययस्य पूर्वकालाभिधायित्वात् किं कुर्यादित्याह-'तम्हा' इत्यादि, यस्मात् संयमः सर्वसावद्यारम्भनिवृत्तिरूपः तस्मात्तमादाय पापं-पापहेतुत्वात् कर्म क्रियां न कुर्यात् स्वतो मनसाऽपि न समनुजानीयादित्यवधारणफलं, अपरेणापि न कार|येदिति, आह च-न कारवें' इत्यादि, अपरेणापि कर्मकरादिना पापसमारम्भ न कारयेदित्युक्तं भवति, प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभरागद्वेषकलहाभ्याख्यानपैशून्यपरपरिवादारतिरतिमायामृषावादमिथ्यादर्शनशल्यरूपमष्टादशप्रकारं पापं कर्म स्वतो न कुर्यान्नाप्यपरेण कारयेदेवकाराच्यापरं कुर्वन्तं न समनुजानीयाद्योग|त्रिकेणापि भावार्थः । स्यादेतत्-किमेकं प्राणातिपातादिकं पापं कुर्वतोऽपरमपि दौकते आहोस्विन्नेत्याह
॥१४०
| द्वितीय-अध्ययने षष्ठ-उद्देशक: 'अममत्व' आरब्धः,
[291]