________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [५], मूलं [९२], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचाराङ्गवृत्तिः (शी०) ॥१३६ ॥
इत्येवमादि, तथा तिप्पई'त्ति 'तिपू ते प्रक्षरणाौँ तेपते-क्षरति सचलति मर्यादातो अश्यति निमर्यादो भवतीतियावत् , लोक.वि.२ तथा शारीरमानसैदुःखैः पीज्यते, तथा परिः-समन्ताद्वहिरन्तश्च तप्यते परितप्यते, पश्चात्तापं वा करोति, यथेष्टे पुत्रकलत्रादौ कोपात् कचिद्गते स मया नानुवर्तित इति परितप्यते, सर्वाणि चैतानि शोचनादीनि विषयविषावष्टब्धान्त:कर
उद्देशका णानां दु:खावस्थासंसूचकानि, अथवा शोचत इति यौवनधनमदमोहाभिभूतमानसो विरुद्धानि निषेव्य पुनर्वय परिणा| मेन मृत्युकालोपस्थानेन वा मोहापगमे सति किं मया मन्दभाग्येन पूर्वमशेषशिष्टाचीर्णः सुगतिगमनैकहेतुर्दुर्गतिद्वारप-|| रिघो धम्मों नाचीर्णः? इत्येवं शोचत इति, उक्तं च "भवित्री भूतानां परिणतिमनालोच्य नियता, पुरा यद्यत् किश्चि|द्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुपाम् ॥१॥" तथा जूरतीत्यादीन्यपि स्वबुद्ध्या योजनीयानि, उक्तं च-"सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ १॥" इत्यादि । कः पुनरेवं न शोचत इत्याह
आययचक्खू लोगविपस्सी लोगस्स अहो भागं जाणइ उडे भागं जाणइ तिरियं भार्ग जाणइ, गदिए लोए अणुपरियडमाणे, संधि विइत्ता इह मच्चिएहि, एस वीरे
॥१३६॥ पसंसिए जे बद्धे पडिमोयए जहा अंतो तहा बाहिं जहा बाहिं तहा अंतो, अंतो
SARERatininemarana
[283]