SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [५], मूलं [८८], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत लोक.वि.२ उद्देशकः५ सूत्रांक [८८] दीप श्रीआचा-वनीपकपिण्डः ५ चिकित्सापिण्डः ६ क्रोधपिण्डः ७ मानपिण्डः ८ मायापिण्डः ९ लोभपिण्डः १० पूर्वसंस्तवपिण्डः ११ रावृत्तिः पश्चात्संस्तवपिण्डः १२ विद्यापिण्डः १३ मन्त्रपिण्डः १४ चूर्णयोगपिण्डः १५ मूलकर्मपिण्डश्चेति १६ । तथा दशैषणा(शी०) दोषाः, ते चामी-शङ्कित १ रक्षित २ निक्षिप्त ३ पिहित ४ संहृत ५ दायको ६ मिश्रा ७ ऽपरिणत ८ लिप्तो ९ झित १० दोषाः । एषां चोद्गमदोषा दातृकृता एव भवन्ति, उत्पादनादोषास्तु साधुजनिताः, एषणादोषाश्चोभयोखादिता इति ।। ॥१३२॥ तथा परसमयज्ञो ग्रीष्ममध्याहतीव्रतरतरणिकरनिकरावलीढगलत्स्वेदबिन्दुका क्लिन्नवपुष्का साधुः केनचित् धिग्जातिदेश्येनाभिहित:-किमिति भवतां सर्वजनाचीर्ण स्नानं न सम्मतमिति !, स आह-प्रायः सर्वेषामेव यतीनां कामाइत्वाजलस्नानं प्रतिषिद्धं, तथा चार्षम्-"मानं मददपकर, कामा प्रथम स्मृतम् । तस्मात्कार्म परित्यज्य, नैव स्त्रान्ति दमे रताः॥१॥" इत्यादि, तदेवमुभयज्ञस्तद्विषये प्रश्ने उत्तरदानकुशलो भवति, तथा 'भावन्ने भावा-चिचाभिप्रायो दातुःश्रोतु तं जानातीति भावज्ञः, किंच-परिग्गहं अममायमाणे' परिगृह्यत इति परिग्रहः-संयमातिरिक्तमुपक-1 |रणादिः तमममीकुर्वन्-अस्वीकुर्वन् मनसाऽप्यनाददान इतियावत्, स एवंविधो भिक्षुः कालज्ञो बलज्ञो मात्रज्ञः क्षेत्रज्ञः। खेदज्ञो क्षणशः विनयज्ञः समयज्ञो भावज्ञः परिग्रहमममीकुर्वाणश्च किंभूतो भवतीत्याह-कालाणुहाई' यद्यस्मिन् काले कर्त्तव्यं तत्तमिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी-कालानतिपातकर्त्तव्योद्यतो, ननु चास्यास 'से भिक्खू || कालन्ने' इत्यनेनैव गतार्थत्वात् किमर्थं पुनरभिधीयते इति ?, नैष दोषः, तत्र हि ज्ञपरिव केवलाऽभिहिता, कर्त्तव्यकालं जानाति, इह पुनरासेवनापरिज्ञा कर्त्तव्यकाले कार्य विधत्त इति । किं च-'अपडिपणे नास्य प्रतिज्ञा विद्यते इत्यप्रतिज्ञः, अनक्रम [275]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy