________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [८७], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [८७]]
टीप
भइत्याया-चारित्राहः, आर्या प्रज्ञा यस्यासावार्यप्रज्ञः, श्रुतविशेषितशेमुषीक इत्यर्थः, आर्य-प्रगुण न्यायोपपर्ण पश्यति
तच्छीलत्यार्यदर्शी पृथक्प्रहेणकश्यामाशनादिसङ्कल्परहित इत्यर्थः, 'अयंसंधीति' सन्धान सम्धीयते वाऽसाविति। KIसन्धिरय सन्धिर्यस्य साधोरसावयंसन्धिः, छान्दसत्वाद्विभक्केरलुगित्ययंसन्धिः-यथाकालमनुष्ठान विधायी यो यस्य ||
वर्तमानः कालः कर्तव्यतयोपस्थितस्तस्करणतया तमेव सन्धत्त इति, एतदुक्तं भवति-सर्वाः क्रियाः प्रत्युपेक्षणोपयोगस्वाध्यायभिक्षाचर्याप्रतिक्रमणादिकाः असपला अन्योऽन्याबाधया आत्मीयकर्त्तव्यकाले करोतीत्यर्थः, इतिः हेतो, यस्माद्यथाकालानुष्ठान विधायी तस्मादसावेव परमार्थं पश्यतीत्याह-'अदक्खुति, तिव्यत्ययेन एकवचनावसरे बहुवचनमकारि, ततश्चायमर्थः-यो ह्यार्य आर्यप्रज्ञ आर्यदशी कालज्ञश्च स एव परमार्थमद्राक्षीनापर इति, पाठान्तरं वा 'अयं संधिमदक्खु 'अयम्' अनन्तरविशेषणविशिष्टः साधुः 'सन्धि' कर्त्तव्यकालम् 'अद्राक्षीद्' दृष्टवान् , एतदुक्तं भवति-यः परस्परावाधया हिताहितप्राप्तिपरिहाररूपतया विधेयावसरं वेत्ति विधत्ते च स परमार्थ ज्ञातवानिति, अथवा भावसन्धिः-ज्ञानदर्शनचारित्राणामभिवृद्धिः स च शरीरमृते न भवति, तदपि नोपष्टम्भककारणमन्तरेण, तस्य च सावद्यस्य परिहारः कर्त्तव्य इत्यत आह–से णाईए' इत्यादि, 'स' भिक्षुस्तद्वाऽकरप्यं 'नाददीत' न गृह्णीयानाप्यपरमादापयेत्-ग्राहयेत्, नाप्यपरमनेषणीयमाददानं समनुजानीयादपि, अथवा सइङ्गाल सधूमं वा नाद्यात्-न भक्षयेन्नापरमादयेददन्तं वा न समनुजानीयादिति, आह-सब्वामगंध' इत्यादि, आमं च गन्धश्च आमगन्धं समाहारद्वन्द्वः, सर्व च तदामगन्धं च सर्वामगन्ध, सर्वशब्दः प्रकारकात्सर्येऽत्र गृह्यते न द्रव्यकालये, आमम्-अपरिशुद्धं, गन्धग्रह
[272]