________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [८१], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
व्यभावभेदात् , द्रव्योघो नदीपूरादिको भावीघोऽष्टप्रकार कम्मै संसारो वा, तेन हि प्राण्यनन्तमपि कालमुह्यते, तम्ओघ ज्ञानदर्शनचारित्रबोहित्थस्था तरन्तीत्योधन्तरा न ओघन्तरा अनोघन्तराः, तरतेश्छान्दसत्वात् खा, खित्वान्मुमा-1 |गमः, एते कुतीथिकाः पार्श्वस्थादयो वा ज्ञानादियानविकलाः यद्यपि तेऽप्योघतरणायोद्यतास्तथापि सम्यगुपायाभा-18 वात् न ओघतरणसमर्था भवन्तीति, आह च-'नो य ओहं तरित्तए' 'न च' नैवोघं-भावौघं तरितुं समर्थाः, संसारीपतरणप्रत्यला न भवन्तीत्यर्थः, तथा 'अतीरंगमा' इत्यादि, तीरं गच्छन्तीति तीरङ्गमाः पूर्ववत् खशपत्ययादिक, न तीरङ्गमा अतीरङ्गमाः एत इति प्रत्यक्षभावमापनान् कुतीर्थिकादीन् दर्शयति, न च ते तीरगमनायोद्यता अपि तीरं8 |गन्तुमलं सर्वज्ञोपदिष्टसम्मागांभावादिति भावः, तथा 'अपारंगमा' इत्यादि, पारः-तटः परकूल तगच्छन्तीति पारङ्गमा न पारङ्गमा अपारङ्गमाः 'एत' इति पूर्वोक्ताः, पारंगतोपदेशाभावादपारङ्गता इति भावनीयं, न च ते पारगतोपदेशमृते पारगमनायोद्यता अपि पारं गन्तुमलम्, अथवा गमनं गमः पारस्य पारे वा गमः पारगमः, सूत्रे त्वनुस्वारोऽलाक्षणिको, न पारगमोऽपारगमस्तस्मा अपारगमाय, असमर्थसमासोऽयं, तेनायमर्थः-पारगमनाय ते न भवन्तीत्युक्तं भवति । ततश्चानन्तमपि कालं संसारान्तर्वर्त्तिन एवासते, यद्यपि पारगमनायोद्यमयन्ति तथापि ते सर्वज्ञोपदेशविकलाः स्वरुचिविरचितशाखप्रवृत्तयो नैव संसारपारं गन्तुमलम् , अथ तीरपारयोः को विशेष इति, उच्यते, तीरं मोहनीयक्षयः पारं शेषघातिक्षयः, अथवा तीरं घातिचतुष्टयापगमः पारं भवोपग्राह्यभाव इत्यर्थः, स्यात्-कथमोघतारी कुतीर्थादिको न भवति तीरपारगामी चेत्याह-'आयाणिज्ज' इत्यादि, आदीत्यन्ते-गृह्यन्ते सर्वभावा अनेनेत्यादानीयं-श्रुतं तदादाय
wwsaneiorary.org
[258]