________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६२], नियुक्ति: [१८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[६२]
दीप
त्वाच सूत्रस्येत्येवमपि द्रष्टव्यं यो गुणे गुणेषु वा वर्त्तते स मूलस्थाने मूलस्थानेषु वा वर्त्तते, यो मूलस्थानादौ वर्तते स एव गुणादौ वर्त्तत इति, य एव जन्तुः शब्दादिके प्राग्व्यावर्णितस्वरूपे गुणे वर्त्तते स एव संसारमूलकषायादिस्थानादौन वर्त्तते, एतदेव द्वितीयसूत्रापेक्षया व्यत्ययेन प्राग्वदायोज्यम्, अनन्तगमपर्यायत्वात् सूत्रस्यैवमपि द्रष्टव्यं-यो गुणः स एव मूलं स एव च स्थानं, यन्मूलं तदेव गुणः स्थानमपि तदेव, यत् स्थानं तदेव गुणो मूलमपि तदेवेति, यो गुणः शब्दादिकोऽसावेव संसारस्य कषायकारणत्वान्मूलं स्थानमप्यसावेव इत्येवमन्येष्वपि विकल्पेषु योज्यं, विषयनिर्देशे च |
विषय्यप्याक्षिप्तो, यो गुणे वर्चते स मूले स्थाने चेत्येवं सर्वत्र द्रष्टव्यम्, इह च सर्बज्ञप्रणीतत्वादनन्तार्थता सूत्रस्यावग-16 हन्तव्या, तथाहि-मूलमत्र कषायादिकमुपन्यस्त, कषायाश्च क्रोधादयश्चत्वारः, कोधोऽप्यनन्तानुवन्ध्यादिभेदेन चतुझे,
अनन्तानुबन्धिनोऽप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि बन्धाध्यवसायस्थानान्यनन्ताश्च तत्पर्यायास्तेषां च प्रत्येक स्थान
गुणनिरूपणेनानन्तार्थता सूत्रस्य सम्पद्यते, सा च छद्मस्थेन सर्वायुषाऽप्यविषयत्वा(दनन्तत्वा)च्चाशक्या दर्शयितुं, दिग्दर्शनं ४ातु कृतमेवातोऽनया दिशा कुशाग्रीयशेमुष्या गुणमूलस्थानानां परस्परतः कार्यकारणभावः संयोजना च कार्येति । तदेवं
य एव गुणः स एव मूलस्थानं यदेव मूलस्थानं स एव गुण इत्युक्तं, ततः किमित्यत आह 'इति से गुणही महया
इत्यादि, इतिहेती यस्माच्छब्दादिगुणपरीत आत्मा कषायमूलस्थाने वर्तते, सर्वोऽपि च प्राणी 'गुणार्थी' गुणप्रयोजनी| Rगुणानुरागीत्यतस्तेषां गुणानामप्राप्ती प्राप्तिनाशे वा कालाशोकाभ्यां स प्राणी 'महता' अपरिमितेन परि-समन्तात्तापः
परितापस्तेन-शारीरमानसस्वभावेन दुःखेनाभिभूतः सन् पौनःपुन्येन तेषु तेषु स्थानेषु 'वसेत्' तिष्ठेदुत्पधेत, किम्भूतः
अनुक्रम [६३]
[210]