SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति : [१८३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [६१] दीप रूपप्रक्षेपयोग्यायोग्यादिक वैक्रियशरीरवर्गणानां जघन्योत्कृष्टविशेषलक्षणं चावसेयं, तथा बैक्रियाहारकान्तरालवय॑योग्यवर्गणानां जघन्योत्कृष्टविशेषासङ्ख्येयगुणत्वमिति, पुनरप्ययोग्यवर्गणोपरि रूपप्रक्षेपात् जघन्याहारकशरीरयोग्यवगणा भवन्ति, ताश्च प्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टां यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः किवदन्तरमिति? उच्यते, जघन्याभ्य उत्कृष्टा विशेषाधिकाः, को विशेष इति चेत्?, जघन्यवर्गणाया एवानन्तभागः, तस्याप्यनन्तपरमाणुत्वादाहारकशरीरयोग्यवर्गणानां प्रदेशोत्तरवृद्धानामानन्त्यमिति भावना, तस्यामेवोत्कृष्टवर्गणायां रूपे प्रक्षिप्ते जघन्या आहा|रकाग्रहणयोग्यवर्गणाः, ततः प्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टां यावदनन्ता एव आहारकस्य सूक्ष्मत्वाद् बहुप्रदेशत्वाञ्चायोग्या एव भवन्ति, बादरत्वादल्यप्रदेशत्वाच्च तैजसस्येति, जघन्योत्कृष्टयोः कियदन्तरमिति ? उच्यते, जघन्याभ्य उत्कृष्टा अनन्तगुणाः, केन गुणकारेणेति चेत्, अभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभाग इति, तदुपरि रूपे प्रक्षिप्ते तैजसशरीरवर्गणा जघन्याः, एता अपि प्रदेशवृद्ध्या वर्धमाना उत्कृष्टां यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कियदन्तरं?, जघन्याभ्य उत्कृष्टा विशेषाधिका, विशेषस्तु जघन्यवर्गणानन्तभागः, तस्याप्यनन्तप्रदेशत्वाजघन्योत्कृष्टान्तरालवर्गणानामानन्त्यं भवति, तैजसोत्कृष्टवर्गणोपरि रूपे प्रक्षिप्ते सत्यग्रहणवर्गणा भवन्ति, एवमेकादिवृद्धयोत्कृष्टान्ता अनन्ताः, ताश्चातिसूक्ष्मत्वाद् बहुप्रदेशत्वाच तैजसस्याग्रहणयोग्याः, बादरत्वात् अल्पप्रदेशत्वाच भाषाद्रव्यस्यापीति, जघ न्योत्कृष्टयोरनन्तगुणत्वेन विशेषो, गुणकारश्चाभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभाग इति, तस्यामयोग्योत्कृष्टवर्गहाणायां रूपे प्रक्षिप्ते जघन्या भाषाद्रव्यवर्गणा भवति, तस्याश्च प्रदेशवृद्ध्या उत्कृष्टवर्गणापर्यन्तान्यनन्तानि स्थानानि अनक्रम [196]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy