________________
(१६ ) मदुक्तान्मत्समान् ज्ञात्वा. तत्रासक्तो भव स्वयम् ॥ देहि तेभ्यः स्वकं सर्व, तेषु त्वं ममतां कुरु ॥१४९।। जीवत्सु तेषु जीव ! त्वं, सत्यं मन्यस्व मद्वचः॥ ज्ञानाग्रेऽस्ति श्रियोभ्रान्ति-,मत्वा शान्ति शुभां
भज ॥ १५० ॥ मद्भक्तः सर्वतः श्रेष्ठः, प्रीत्या तत्सेवनं कुरु ॥ अन्यां माया मुपेक्षस्व, मद्भक्तेषु च पश्य माम् ॥१५१॥ आत्मज्ञाने कुरु प्रीति, क्षणिकेषु रतिं त्यज ॥ जडवस्तुषु मा मुह्य !!, पीवाऽऽत्मानुभवामृतम् ॥१५२॥ आत्मा हि सद्यः परमाऽऽत्मदेवः, कश्चिन्नदेवोऽस्ति
निजाऽऽत्मतुल्यः॥ आत्मस्वरूपः खलु जैनधर्मः, शुद्धस्वरूपो जिन
धर्मएव ॥ १५३ ॥ सत्त्वासत्त्वात्मधर्मेति, ज्ञाते कर्म न बध्यते ॥ आत्मोपयोगतो धर्मः, शाश्वतं शर्म जायते ॥१५४॥ सद्धर्म अात्मभावेन, सत्यं मात्यत्र निश्चयः ॥ आत्मराज्यं महच्चास्ति, यदाज्ञा विश्वमण्डले ॥१५५॥ आत्मपुरस्सरो नान्यो, राजन्नेवं विचारय ॥ आत्मप्रेम्णाऽऽत्मलाभोऽस्ति, पूर्णानन्दः शिवं
व्रजेत् ॥ १५६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com