SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ उपकुरु प्रजाः सर्वा, नरनारीश्च शिक्षिताः॥ कार्या रोगादिनाशार्थ-, मुपचारास्त्वया पुनः ॥५०॥ दुष्कालादिप्रसंगेषु, सर्वोपायान् समाचर ॥ वारय व्यभिचारादीन् , धर्मिणश्च नरान्कुरु॥ ५१ ॥ राज्यकर्मप्रबन्धांश्च, पश्य नान्धो भव स्वयम् ॥ लभस्व सर्वशक्तीश्च, कर्म शक्तिमतां कुरु ॥५२॥ बलिनां सर्वदा राज्यं, राज्यं कार्य न दुर्बलैः ॥ विद्या ततोऽस्ति साम्राज्यं, तद्राज्यं यस्य शक्तयः॥५३॥ सर्वप्रकारतो दक्षो, भव स्वप्रगतिं कुरु । धैर्यतः कुरु कर्माणि, साम्राज्यं वृद्धि माप्स्यति ॥५४॥ मिथ्यादुष्टाश्च पाखण्डा, स्तदाटोपं निवारय ॥ रक्ष सर्वप्रजास्तुल्याः, सत्यं ब्रूहि च निर्भयः॥ ५५ ॥ प्रजोन्नतिकृते यश्च, वर्तते स्वं समर्पयन् ॥ स राजा राजयोग्योऽस्ति, दयादानदमैः कृती ॥५६॥ सर्वजीवेषु मां पश्ये-, दात्मवद्वर्तनं शुभम् ॥ सेवकः सर्वलोकानां, राजा गण्यो हि सेवनात् ॥५७॥ पश्येत्प्रजासमं स्वं च, शं लभेत प्रजोन्नतेः ॥ कुर्वन्साधुसतां मानं, शृण्वन् शिक्षां च धारयन् ॥५८॥ सत्यस्य यश्च संगी स्याद्, नासत्ये यश्च मुह्यति ॥ सर्वं माध्यस्थ्यतः पश्ये-त्स राजा स्वर्गमश्नुते ॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy