________________
( ४ )
11 30 11
॥ ३२ ॥
लेशं दुष्टवशो माभूः, क्लेशं नान्यायतः कुरु ॥ श्रद्धेहि जैनधर्मेषु, सत्यां वाचं च भाषय स्यात्सुखं कर्मभिः पुण्यैः, दुःखं स्यात्पापकर्मणा ॥ प्रजाः पुण्येन रक्ष त्वं, पापकर्म च वारय ॥ ३१ ॥ देशस्य पापपुण्याभ्यां, देशो दुःखी तथा सुखी ॥ पुण्यं स्थापय वर्णेषु, हिसां वारय देशतः पशुपक्षितरून्रक्ष, दक्षः स्याजनरक्षणे ॥ न्यायं कुरु स्वयं सर्वं, स्वयमावश्यकं कुरु ॥ ३३ ॥ दुःखिनां कुरु संभारं, साधून् धेनूश्च पालय ॥ वारय व्यसनं देशा, - न्नरनारीसुखं कुरु ॥ ३४ ॥ दुष्टान्दण्डय नीत्या त्व, मुद्यतस्व प्रजाऽवने ॥ साधूनां सेवनं साध्यं, मां परब्रह्म भावय ॥ ३५ ॥ व्यवस्थां कुरु राज्यस्य, स्वयं प्रामाणिको भव ॥ सम्मानय च लोकानां, निर्विवेकी न वा भव ॥ ३६ ॥
गच्छ संगृह्य गाम्भीर्य, वारय दुष्टवासनाः ॥
जैनधर्मं जगद्वयाप्तं कुरु जन्म फलं शुभम् ॥ ३७ ॥
,
त्यज भोगविलासं च, धर वैराग्य मान्तरम् ॥ सर्वजीवे शुभं रागं कुरु जीवक ! ! धर्मतः ॥ ३८ ॥ पक्षपातं त्यजाशु त्वं, व्यर्थगर्व नवा कुरु ॥ शत्रुतः सावधानः स्या, यथायोग्यं च शिक्षय ॥ ३६ ॥
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat