________________
जीवकप्रबोधः।
*@@@ जय लोके महावीरः, सर्वज्ञः परमेश्वरः॥ वन्देऽहं त्वां गुरो देव, सेवनं तेऽहमर्थये ॥१॥ नाथ !! भारतभूपोऽहं, सनाथं कृपया कुरु ॥ क्लेशो नश्यति मे येन, मद्योग्य मुपदिश्यताम् ॥ २ ॥ प्रससारोपदेशस्ते, देशेषु भारतादिषु ॥ हितः स नरनारीणां, धन्यं धन्यं च जन्म ते ॥३॥ सारशिक्षां च मे देहि, मदुद्धारो यतो भवेत् ॥ दयां कुरु मयि प्रीत्या, आश्रयोऽसि त्वमेव मे ॥ ४॥ वेदो नान्योऽस्ति ते वाक्या-ज्जीवखेदांश्च भञ्जय ॥ प्रजास्वस्तु यतः सौख्यं, भवेच्चाऽऽत्मनि लीनता ॥५॥ शृणु जीवकभूपाल !! सत्यभक्तोऽस्ति मे भवान् ॥ आर्यदेशेषु मद्भक्तः, प्रभुभक्तौ सदामनाः ॥६॥ शृणु प्रीत्योपदेशं मे, क्लेशो नश्यति तेन ते ॥ आतुरेभ्यः कृता शिक्षा, गुणसारं प्रकाशयेत् ॥७॥ सम्यग्बोधश्च भक्तानां, दुष्टानां च विपर्ययः॥ भक्ताधीनोऽस्ति देवेशो, ज्ञानं स्यादुपदेशतः ॥ ८॥ प्रभुप्राप्तिकृते राज्यं, कुरु साम्राज्यमाऽऽत्मनः ॥ रक्षायै सर्वजीवानां, वर्तते राज्यपद्धतिः ॥९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com