SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ चतस्रो भावना भाव्याः सर्वकर्मविनाशिकाः । द्वादश भावना भाव्या, मोहादिविषनाशिकाः ॥३१०॥ धर्मध्यानं हृदि ध्येयं, धर्मध्यानस्य भावना । यत्र तत्र सदा भाव्या, दिने रात्रौ यदा तदा ॥३११॥ सर्वथा सर्वदा ब्रह्मदृष्ट्या विश्वं निभालय । सर्वत्र ब्रह्मदृष्टिं त्वं, धारयस्व स्वमुक्तये ॥ ३१२ ॥ एकमेव निजाऽऽत्मानं, चिन्तय स्वोपयोगतः । अन्यं सर्वं च विस्मृत्य, मग्नो भव निजाऽऽत्मनि ॥३१३॥ बाह्यसुखपदार्थेषु, सुखं दुखं च नास्तिं भोः। दु:खदातृत्वशक्तित्वं, जडेषु नास्ति जानत ॥३१४॥ दुःखमाऽऽत्मस्वभावो न, सुखमाऽऽत्मस्वभावतः। दुःखं वैभाविकं चास्ति, सुखं स्वाभाविकं निजे॥३१५॥ दुःखं भवति मोहेन, सुखं निर्मोहभावतः । आत्मोपयोगतः कर्म,-जित्वा सुखी भव स्वयम्॥३१६॥ प्रमादं मा कुरु स्वात्मन् !! जागृहि त्वं प्रतिक्षणम् । शुद्धोपयोगवीर्येण, कर्मनाशोऽस्ति निश्चयः ॥ ३१७॥ सर्वाचारविचारेषु, साक्षी समो यदा भवेत् । कृत्स्नकर्मक्षयो मोक्षः प्रत्यक्षमनुभूयते ॥३१८ ॥ मोक्षानन्दस्तु चात्रैव, प्रत्यक्षमनुभूयते ।। मया ध्यानोपयोगेन, क्षयोपशमभावतः ॥३१९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy