SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ( १८ ) राज्ञामपि महाराजः, स्वर्गेन्द्राणामधीश्वरः । आत्माराम स्त्वमेवाऽसि, किञ्चिन्न्यूनं न ते पदे ॥१७०॥ दाता त्वमेव सर्वेषां, पुद्गलानां न भिक्षुकः । ज्ञानानन्दस्वरूपेण, देवोऽसि देहमन्दिरे ॥१७१॥ मा कुरु मोहविश्वासं, मोहेन स्वाऽऽत्मविस्मृतिः । भवत्येव हृदि ज्ञात्वा, कुरु मोहपराजयम् ॥ १७२ ॥ अनेकवृत्तिरूपेण, मोहश्चित्ते प्रजायते । श्रात्मोपयोगभावेन, जायते मोहसंक्षयः ॥१७॥ कर्तुं निजाऽऽमनो हानि, शक्ता इन्द्रादयोऽपि न । कर्मोदयं विना हानि, कर्तुं शक्ता न शत्रवः ॥१७॥ अतः शत्रुषु मा वैरं, कुरुष्व भव्यचेतन । शत्रुभि र्मा बिभेषि त्वं, शुद्धरूपं विचारय ॥ १७५॥ उच्चनीचादयो भावा, बाह्येषु न चिदाऽऽत्मनि । श्रात्मस्वरूपसंस्मत्या, नश्यति मोहभावना ॥१७६ ॥ तीवकामोदये जाते, प्रारब्धकर्मयोगतः। अध्यात्मभावना तीव्रा, भाव्या वैराग्यकारिका ॥१७७॥ तीववैराग्यभावेन, तीवकामो विनश्यति । मुहुर्मुहुर्भृशं भाव्यं, शुद्धरूपं निजाऽऽत्मनः ॥ १७ ॥ परपुद्गलभोगेन, सुखं तु कल्पितं वृथा । भृशं दुःखं ततः पश्चा-ज्ज्ञात्वा स्वाऽऽत्मरतिं कुरु ॥१७९।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy