________________
द्वेषातिगं मानसमान्तरं चे त्तवृत्तितो ज्ञायत आत्मतत्त्वम् ॥१५६ ॥ चेद्भासते संस्थिरमात्मचित्तं, तद्भासते संस्थिरमेव सर्वम् ॥ मूर्छातिगान्मानसयोगतः स्यास्वयं स आत्मा परमोऽवधूतः ॥ १५७ ॥ चित्तैर्भवस्य भ्रमणं चकास्ति, . चित्तैर्भवानां च भवेद्विनाशः प्रवर्धते चंचलताऽपि चित्तै, राशाऽपि सर्वस्य सुखस्य चित्तैः ॥१५८ ॥ मनः कपिर्मोहसुरां निपीय, निरन्तरं कूर्दति धाम धाम्नः ।। मनःकपि यो विषयातिगोऽयं,
प्रवर्ततेऽसौ स्थिरसौख्यधाम ॥१५६ ॥ कष्टक्रियां प्रकुर्वन्ति न कुर्वन्ति वशं मनः निष्फलाऽस्ति क्रिया तस्य यथा चित्रं रजःस्थले ॥१६०।। कम्पमाने सरोनीरे चन्द्रबिम्बञ्च कम्पते ॥ स्थिरे सति सरोनीरे स्थिरो वशमना जनः ॥ १६१ ॥ पुरुषार्थ मुदा धृत्वा, कर्तारः स्ववशं मनः ॥ अात्मार्थिनो जनास्ते तु न दीना कैश्च हेतुभिः॥१६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com