________________
२५
गुरोरधीनं कुरुताऽऽत्मचित्तं, स्वगेहभानं च ततो लभध्वम् ॥ १२४ ॥ श्रद्धा गुरो र्यस्य चकास्ति चित्ते, वा यस्य चित्ते गुरुभक्तिरस्ति । तस्यानुसारेण जगत्सु कश्चिद्, भवी मनुष्यो लभते च तत्त्वम् ॥ १२५ ॥ प्राणाधिकः प्राणसमाधिको वा, . पुत्राधिको यस्य गुरौ च रागः। वाचा गुरोः सद्गुणधर्म माप्य, सौभाग्यभोगं लभते मनुष्यः ॥१२६ ॥ चेतस्य संख्यात्मप्रदेशरूपं, तदात्मतत्त्वं प्रविचारयध्वम् । आत्मा हि साक्षात्परमात्मदेवः, स एव शुद्धो भगवाँश्च बुद्धः ॥१२७॥ पादाच्छिरो व्याप्य च दर्शना), यो वर्तते पुद्गलरूपिदेहः। खड्गो यथा वर्तत आत्मकोशे, तथा निजात्मा वसति स्वदेहे ॥१२८॥ न चेन्द्रियाणां निचयो निजात्मा, अात्मा यतो वाड्मनादिभिन्नः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com